________________
पीठिका - [भा. ५८४] धूपिता अगुरुप्रभृतिभि, वासिता पटवास-कुसुमादिभि, उद्दयोतिता' अन्धकारेऽग्निकायेन कृतोश्योता, 'बलिकृता' यत्र संयतनिमित्तं बलिविधानं कृतम्, 'अवात्ता' नाम यत्र भूमिरुपलिप्ता, सिक्ता आवर्षणकरणतः, सम्मृष्टा सम्मार्जन्या संयतनिमित्तम् । एवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिर्भवति ॥अत्रैव प्रायश्चित्तविधिमाह[भा.५८५] अप्फासुएण देसे, सव्वे वा दूमियादि चउलहुगा ।
अफासु धूमजोती, देसम्मि वि चउलहू होंति ।। वृ-यत्रदेशतः सर्वतोवा अप्राशुकेन दूमितादि आदिशब्दात्समस्तान्यपि पदानिगृहीतानि तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। यत्र पुनरगुरुप्रभृतिभिधूपनमन्धकारेऽग्निकायेनोश्योतनंतत्र नियमादप्राशुकः-सचित्तोऽग्निकायइतिदेशेऽपिचत्वारोलघुकाः किमुत सर्वतः? । [भा.५८६] सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा ।
सम्मज्जण साह-कुसादि छिन्नमेत्तं तु सच्चित्तं ॥ वृ-'शेषेषु' धूपितमुद्दयोतितंचमुक्त्वाअन्येषुदूमित-वासित-बलिकृता-ऽवात्त-सिक्तसम्मृष्टरूपेषु भेदेषुप्राशुकेन देशतः करणे मासलघु, सर्वतश्चत्वारो लघवः । तथा यद् माय॑ते तत्र सचित्तं शाखा-कुशादि च्छिन्नमात्रं तद यदि देशतः सर्वतो वा सम्मापते तदा चतुर्लघु ॥ [भा.५८७] मूलुत्तरचउभंगो, पढमे बीए य गुरुग सविसेसा ।
तइयम्मि होइ भयणा, अत्तट्टकडो चरम सुद्धो॥ वृ-मूलगुणाः पृष्ठवंशादयः उत्तरगुणा वंशकादयः तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणाअपिपृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः, अत्र प्रायश्चित्तं चत्वारो गुरुका, द्वाभ्यां गुरवः, तद्यथा-तपसा कालेनच।मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः, अत्र चत्वारो गुरुकास्तपोगुरवः काललघुकाः । “तइयम्मि होति भयण"त्ति मूलगुणाः स्वार्थमुत्तरगुणाः संयतार्थमिति तृतीयो भङ्गस्तस्मिन् भजना । सा चेयम्-येऽत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा चतुर्गुरवस्तपोलघवः कालगुरवः, अथ विशोधिकोटिगतास्ते ततोऽप्राशुकेन देशेसर्वस्मिन्वा परिकर्मणिचत्वारोलघवः, प्राशुकेन देशतोमासलघु, सर्वतश्चत्वारो लघुकाः । आत्मार्थं मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः ।।
तदेवं द्विविधकरणोपघातेति द्वारं व्याख्यातम् । अधुना संसक्तद्वारमाह[भा.५८८]पुढवि दगअगनि हरियग, तसपाण सागारियादि संसत्ता।
वंभवयआदि-दंसणविराहिगा पच्चवाया उ॥ वृ-पृथिव्या उदकेनाग्निना हरितकेन त्रसपाणैः 'सागारिकादिभिश्च सागारिकः-शय्यातरः आदिशब्दादन्यस्त्र-पुरुषगृहस्थैः ‘संसक्ता' सम्मिश्रा । तथा प्रत्यपाययति-प्रत्यपाये पातयतीति प्रत्यपाया ब्रह्मव्रतादीनां दर्शनस्य-सम्यक्त्वस्य विराधिका, यत्र ब्रह्मव्रतादीनां विराधनोपजायते सा सप्रत्यवाया शय्या इत्यर्थः ।। अत्रोभयत्रापि प्रायश्चित्तविधिमाह[भा.५८९] काएसु उ संसत्ते, सचित्त-मीसेसु होइ सट्ठाणं।
सागारियसंसत्ते, लहुगा गुरुगा यजे जत्थ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org