________________
१४८
बृहत्कल्प-छेदसूत्रम् -१हरितत्रसप्राण-सागारिकसंयुक्ता संसक्ता । ब्रह्मव्रतादिविराधनाकारिणी प्रत्यवाया । तथा विधिविधानं भेदः प्रकार इत्यनर्थान्तरम, शय्याया विधिर्वक्ष्यमाणा नव शय्याया भेदाः । एतैर्मूलकरणादिदोषैर्य सम्यक् परिहर्तुजानाति स शय्याग्रहणे कल्पिको भवति ।।
अथ कतिविधं मूलकरणमुत्तरकरणं वा शोधनीयम् ? अत आह[भा.५८१] सत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसु ।
संसत्तम्मिय छक्कं, लहु-गुरु-लहुगा चरम जाव ॥ वृ- ‘सप्तैव' सप्तप्रकारैव शोधिमूलगुणेषु, गाथायामेकवचनमार्षत्वात्, ‘सप्तैव' सप्तप्रकारैवोत्तरगुणेषुशोधि । किमुक्तं भवति? -मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभि, उत्तरकरणमपि सप्तविधमिति । तथा संसक्ते उपाश्रये 'षट्कं' पृथिव्यप्तेजो-वनस्पति-त्रसायसागारिकलक्षणं शोधनीयम् । किमुक्तं भवति ? -यथोक्तरूपेण षट्केन संसक्तायामपि न स्थातव्यम् । यदि तिष्ठति ततो लघु-गुरु-लघुका यावत 'चरमं' पाराञ्चितं तावत् प्रायश्चित्तम् । तद्यथा-पृथिव्यादिभिः कायैः संसक्तायां तिष्ठन्ति चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकबीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मित्रैः पृथिव्यादिभिर्मासलघु, मित्रैरनन्तैर्मासगुरु, बीजैःप्रत्येकैरनन्तैश्चमित्रैः सचित्तैरिव, त्रसैः संसक्तायांचतुर्गुरु, एवं तिष्ठतः प्रायश्चित्तम् । अथ तिष्ठन् पृथिवीकायादिसट्टनादि करोति तदा लघुक-गुरुकादि प्रायश्चित्तम् “छक्कायचउसुलहुगा" इत्यादि गाथयाप्रागुक्तप्रकारेणाभिहितंतावदवसेयंयावच्चरमं पाराञ्चितमिति ।। “सप्तविधं मूलकरणं शोधनीयम्" इत्युक्तम् अतः सप्त मूलभेदानाह[भा.५८२] पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीतो।
मूलगुणेहि उवहया, जा सा आहाकडा वसही ।। वृ-उपरितनस्तिर्यक्पाती पृष्ठवंशः, द्वौ मूलधारणौ ययोरुपरि पृष्ठवंशस्तिर्यग् निपात्यते, चत+श्च मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदाः । एतैर्मूलगुणैः सप्तभिरुपहता या वसति सा आधाकृता भवति । साधून् आधाय-सम्प्रधार्य कृता आधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्ति ॥ उत्तरकरणं पुनरिदं सप्तविधम्[भा.५८३] वंसग कडणोक्कंचण, छावण लेवण दुवार भूमी य।
- सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसु॥ वृ-वंशका ये वेलीनामुपरिस्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक् ‘कटनं' कटादिभिसमन्ततः पाश्र्वानामाच्छादनम्, 'उत्कञ्चनम्' उपरि कम्बिकानांबन्धनम्, 'छादनं' दर्भादिभिराच्छादनम्, 'लेपन' कुड्यानांकर्दमेनगोमयेन च लेपप्रदानम्, “दुवार"त्तिसंयनिमित्मन्यतोवसतेभरकरणम्, "भूमि"त्तिसमभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम्। एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटि।अन्येऽपि चोत्तरगुणा वसतेर्विद्यन्तेतैः कृता विशोधिकोटि।। के तेऽन्ये उत्तरगुणाः ? इत्यत आह[भा.५८४] दूमिय धूविय वासिय, उज्जोविय बलिकडा अवत्ता य।
सित्ता सम्मट्ठा वि य, विसोहिकोडी कया वसही ॥ वृ- ‘दूमिया' नाम सुकुमारलेपेन सुकुमारीकृतकुडया सेटिकया धवलीकृतकुडया च,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only