________________
पीठिका- [भा. ५७५]
१४७
-
बद्ध्वा च कोल्लुकचक्रन्यायेन परम्परया “संकलि"त्ति तान् पोट्टलकान् दवरकेण सङ्कलय्य यत्र न तृणादिसम्भवस्तत आकाशं तदपि वातप्रतिलोमं तत्र नयति । अथ ज्वलनेनातिप्रसरता ते 'अच्छुल्लूढाः' स्वस्थानं त्याजितास्ततो यत् सारं भाण्डमक्षादि तद् निष्काशयन्ति ॥
मालव-स्तेनेषु यतनामाह[भा.५७६] असरीरतेमभंगे, पवलाए जने उ जंतरति नेउं ।
न विधूमो न वि बोलो, न द्दवति जनो कइयवेसुं॥ वृ-'अशरीरस्तेनभङ्गे येशरीरं नापहरन्ति तैः स्तेनैभङ्गे-प्रपलायमानेजने यद्नेतुं शक्नेति तद् नयति। यदि पुनः कैतवेन केचन ब्रुवते 'अग्नि' समुच्छलितःस्तेना वा द्वेविधाः समापतिताः तदा ते वक्तव्याः-न वै धूमो दृश्यते "न वि बोलो"त्ति नापि जनस्य प्रपलायमानस्य बोलः तस्मान् द्रवति जनो विदग्धः कैतवेष्विति ।। स्वज्ञातिद्वारे यतनामाह[भा.५७७] अन्नकुल-गोत्तकहणं, पत्तेसु वि भीयपरिस पेल्लेइ ।
पुव्वं अभीयपरिसे, भणाति लज्जाए न भणामि ॥ [भा.५७८] जा ताव ठवेमि वए, पत्ते कुड्डादिछेय संगारो।
मा सि हीरे उवहिं, अच्छह जा सिं निवेएमि ।। -यदि केचनस्वज्ञातयआगता वर्तन्तेनचतेतंप्रत्यभिजानतेतदा अन्यकुल-गोत्रकथनं' कर्त्तव्यम् अन्यत् कुलमन्यच्च गोत्रमात्मनः कथयति । अथ ते सम्यग्ज्ञातारः समागतास्तत्र यदि ते भीतपर्षदस्तदा तान् प्रेरयति-ईशास्ताद्दशा यूयम्, बन्धयामि युष्मान् राजकुलेनेति । अथैवमुक्तास्तेन बिभ्यति तर्हि तान्अभीतपर्षदो वक्ति-ममाप्येतदभिप्रेतमुनिष्क्रमणं परं लज्जया न भणामि युष्मान्, यथा-अहमुनिष्क्रमामीति, न वा शक्नोमि लज्जया युष्माकं समीपमागन्तुम्, तभव्यं कृतं यद् यूयमागताः किन्तु तिष्ठत क्षणमात्रं यावदागच्छन्ति साधवः, ततस्तेषां समीपे व्रतानि निक्षिपामि; मा वा तेषां भट्टारकाणामुपकरणं शून्ये उपाश्रये केनापि ह्रियेत, यावच्च तेषां निवेदयामि; मावा तेषांभट्टारकाणामुपकरणंशून्ये उपाश्रये केनापिहियेत, यावच्चतेषां निवेदयामि यथा-'अहं गमिष्यामि' इति तावत् तिष्ठत । एतावतोपायेन तावत् तिष्ठति यावत् साधवः प्राप्ता भवन्ति, तत उपाश्रयकुड्यस्य च्छिद्रंपातयित्वानश्यतिसङ्केतंचकरोति-अमुकस्थानेमांगवेषयत, आगत्य वा मम मिलितव्यमिति॥ [भा.५७९] खंधारादी नाउं, इयरे वितहिं दुयं समभिएंति।
अप्पाहेई तेसिं, अमुगं कज्जं दुयं एह ॥ वृ-'इतरेऽपि' भिक्षार्थमटन्तः साधवः स्कन्धावारमग्नि-मालव-स्तेनपतनवाज्ञात्वा द्रुतं' सत्वरं 'समभियन्ति' समागच्छन्ति । स वा वसतिपालो भिक्षार्थं गतानां सन्देशं कथयति, यथाअमुकं कार्यमापतितमिति द्रुतमागच्छत । गतंरक्षणद्वारम् । इदानीं ग्रहणकल्पिकमाह[भा.५८०] दुविहकरणोवघाया, संसत्ता पच्चवाय सिजविही ।
जो जाणति परिहरिउं, सो गहणे कप्पितो होति ।। वृ-वसतेद्विविधं करणम्-मूलकरणमुत्तरकरणंच, तेन द्विविधेन करणेनोपघातो यस्याः सा द्विविधकरणोपघाता, मूलकरणोपहता उत्तरकरणोपहता चेत्यर्थः । तथा पृथिव्युदक-तेजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org