________________
बृहत्कल्प-छेदसूत्रम् - १
सार्यमाणमुपधि प्रतीक्षन्ते ततस्तथैव वक्तव्यं यथोक्तं प्राक्, यथा-यदत्र नश्यति तद् युष्माकमुपरीति ॥ धर्मकथाद्वारे यतनामाह
[भा. ५७१]
१४६
नत्थि कहालद्धी मे, पुव्वं दिट्ठे व बेति गेलन्नं । दाणादि असंकाण व, आउज्जतो परिकहेइ ॥
वृ-यदि ते कैतवेन स्वभावेन वा समागत्य धर्मकथामापृच्छन्ति तदा वक्तव्यम्-नास्ति मे कथालब्धिः । अथ धर्म कथयन् स पूर्वं दृष्टः ततो वदति - 'ग्लानत्वं' शिरो मे दुःखयति गलको वेति । अथ ते धर्मकथाप्रष्टारो दानश्राद्धा आदिशब्दादभिगमसम्यक्त्वादयश्च सम्यग्ज्ञाता वर्त्तन्ते ततस्तेषां दानादिश्रावकाणाम् 'अशङ्कानां' शङ्काया अविषयाणां द्वारमूले स्थित्वा 'आयोजयन्' भाण्डकविषयमुपयोगं ददानः परिकथयति, मा कथाप्रमत्ते मयि कोऽपि हरेदिति हेतोः ॥
सम्प्रति क्रीडाद्वारे यतनामाह
[भा. ५७२] दडुं पिने न लब्मामो, मा किड्डुह मा हरिज्जिहं को वि । संमजणाSS वरिसणे, पाहुडिया चैव बलिसरिसा ॥
वृ- यदि केचित् तत्र कैतवेन स्वभावेन वाऽऽगत्य क्रीडन्ति तदा तान् प्रति वक्तव्यम्वयमाचार्यादिपार्श्वतो द्रष्टुमपि क्रीतो न लभामहे तस्मादत्र मा क्रीडत, एतच्चैवमुच्यते 'मा कश्चिद् हरेत्' इति कृत्वा । प्रमार्जने आवर्षणे प्राभृतिकायां च यथा बलिद्वारे तथा यतना कर्त्तव्या ।। [भा. ५७३] खमणं निमंतिते ऊ, खंधारे कइयवे इमं भणति । किं ने निरागसाणं, गुत्तिकरो काहिई राया ॥
वृ- भिक्षां यदि कोऽपि निमन्त्रयति तदा वक्तव्यम्-ममाद्य क्षपणमिति । कैतवे च स्कन्धावारे इदं भणति - किं “ने” अस्माकं 'निरागसां' निरपराधानां 'गुप्तिकरः' रक्षाकरो राजा करिष्यति ? यत्र तु स्वाभाविकः स्कन्धावारः समागच्छति तत्रेयं यतना
[भा. ५७४ ] पभु अनुपभुनो व निवेयणं तु पेल्लंति जाव नीणेमि ।
तह वि य अठायमाणे, पासे जं वा तरति नेउं ॥
वृ- प्रभुः नाम राजा, अनुप्रभुः सेनाधिपतिप्रभृतिकः, तं गत्वा धर्मलाभयति- विविक्तमस्माकमुपाश्रयं कुरुत । ततः स मनुष्यान् ददाति ते प्रेरयन्ति समस्तानपि लोकानुपाश्रयप्रविष्टानिति । अथ स्कन्धावारो न व्रजति किन्तु तथैव स्थितवान्, तत्र यदि कोऽपि वसतिं स्थाननिमित्तं प्रेरयेद् अत्रापि प्रभोरनुप्रभोर्वा निवेदनं कर्त्तव्यं येन स वारयति । अथ प्रभुरनुप्रभुर्वा न वारयति अस्वाधीना वा ते पुरुषास्ततो ब्रूते- यावदुपकरणं नयामि तावत् प्रतीक्षस्व (क्षध्वम् ] । ततः कल्पं विस्तार्य सर्वमुपकरणं तत्र प्रक्षिप्योपरि बद्धवा निष्काशयति । अथ प्रभूतमुपकरणं न शक्नोति सर्वमेकवारं नेतुं तदा त्रिषु चतुर्षु वा कल्पेषु बद्धवा कोल्लुकपरम्परकेण महाराष्ट्रप्रसिद्धकोलुल्लु-कचक्रपरम्परन्यायेन निष्काशयति । अथ ते हरन्त्युपकरणं ततो यत् पार्श्वे सारभाण्डमक्षादि यद्वा नेतुं शक्नोति तद् नयति ॥ सम्प्रति स्वाभाविकाग्नौ यतनामाह
[भा. ५७५] कोल्लुपरंपर संकलि, आगासं नेइ वायपडिलोमं । अच्छुल्लूढा जलणे, अक्खाई सारभंडं तु ॥
वृ- ज्वलने प्रवर्द्धमाने सर्वमुपकरणमेकवारमशक्नुवन् कल्पेषु चतुर्षु पञ्चसु वा बघ्नाति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International