SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १४५ पीठिका - [भा. ५६७ ] गुरुरेककस्तिष्ठति शेषाः सर्वे हिण्डन्ते । अथाऽऽचार्योऽपि कुलादिकार्येषु निर्गच्छति ततो य आचार्येण सन्दिष्टः 'मयि निर्गते सर्वमेतस्य पुरत आलोचनादि कार्यम्' स तिष्ठति । ततोयत्र तानि बलिप्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि भवन्ति तत्र तेन वसतिपालेनेयं यतना कर्त्तव्या ॥ तत्र बलिपाते तावदाह [भा.५६८] अप्पुव्वमतिहिकरणे, गाहा न य अन्नभंडगं छिविमो । भणइ व अठायमाणे, जं नासइ तुज्झ तं उवरिं ।। वृ-साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिता भवेयुः । साधूनां चेयं सामाचारीऋतुबद्धे काले बद्ध उपधिस्तिष्ठति वर्षास्वबद्धः, तत्र सप्राभृतिकायां वसती वर्षास्वपि समस्तं भाण्डकमेकायोगं प्रकुर्वन्ति, ततो यदि बलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः । अथ ते कथमपहरणं कर्त्तुकामा ज्ञातव्याः ? उच्यते - अपूर्वान् दृष्ट्वा, ये स्वाभाविकास्ते प्रतिदिवसमागच्छन्तः परिचिताः, येत्वपूर्वास्ते हर्तुकामा विज्ञेयाः । ये वा अतिथौ विशिष्टतिथ्यभावे बलिकरणाय समागतास्तेऽपि हर्तुकामा द्रष्टव्याः । तेऽपि यदि ब्रूयुः निर्गच्छत वयं बलिं करिष्यामः, तदा गाथा वक्तव्या न वि लोणं लोणिजइ, न वि तुप्पिज्जइ घयं व तेल्लं वा । किह नाम लोगडंभग !, वट्टम्मि ठविज्जए वट्टो ? ॥ अन्नं भंडेहि वणं, वणकुट्टग ! जत्थ ते वहइ चंचू । भंगुरवणवुग्गाहित!, इमे हु खदिरा बइरसारा ।। ततो जानते ‘वयं प्रत्यभिज्ञाताः' इति । अथवा वक्तव्यम् - येषामेतदुपकरणं ते मैक्षस्यानयनाय गताः, वयं तु 'अन्यभाण्डकम् ' अन्येषामुपकरणं न स्पृशामः । ततो यदि न तिष्ठन्ति ततो भूयो भणति शृणुत, अस्मभिर्वारिता यूयं न तिष्ठथ ततो यदत्र नश्यति तद् युष्माकमुपरि; एवमुक्ते ते तिष्ठन्ति ॥ [भा. ५६९] कारणे सपाहुडि ठिया, वासे वि करेति एगमायोगं । सन्नाविय दिट्ठा वा, भणाइ जा सारवेमुवहिं ॥ वृ- कारणे सप्राभृतिकायां वसतौ स्थिता वर्षास्वपि समस्तस्यापि भाण्डकस्यैकमायोगं कुर्वन्ति ततो न किञ्चित् पलायते तत्र ये कैतवेन बलिकारकाः समागच्छन्ति तेषु यतनाविधिरुक्तः । सम्प्रति स्वाभाविकेष्वाह - " सन्नाविय" इत्यादि । ये शय्यातरेणान्येन वा बलिकाराः संज्ञापिता ष्टा वा स्वयमन्यदाऽपि बलिं कुर्वाणास्तान् प्रति भणति वसतिपालः- तावत् प्रतीक्षध्वं यावदुपधिं सारयामि; एवमुक्ते ते प्रतीक्षन्ते ॥ [भा. ५७०] उव्वरए कोणे वा, काऊण भणाति मा हु लेवाडे । बहु पेल्लणसारविए, तहेव जं नासती तुज्झं ॥ वृ- ततो वसतिपालो यदि कश्चिदस्त्यपवरकस्तत्र तदुपकरणं प्रक्षिपति, अथ नास्त्यपवरकस्तत एकस्मिन् कोणे सर्वमुपकरणं स्थलीकरोति भणति च-शनैर्बलिविधानं कुरुत, मा उपकरणं कूरसिक्थैः खरण्टयत । अथ ते बहवोऽगारा उन्मत्तकाः सहसैव प्रेर्य प्रविष्टा नैव 18 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy