________________
१३९
पीठिका- [भा. ५४६]
वृ-ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गताः, शय्यातरश्चागतः, दृष्टातेन शून्या वसति, पृष्टंकस्यापिपार्वे-क्व गताः साधवः?,गृहमानुषैरुक्तम्दृश्यते शून्या वसतिस्तस्मादवश्यमन्यत्र गताः । इदं तेषां वचः श्रुत्वा यदि प्रीतिकमुपजायते यथा-यदि 'गता गता नाम' इति तदाऽऽरोपणा चत्वारो लघुकाः । अथ तस्याप्रीतिकमुत्पद्यते यथा-'अकृतज्ञाः एते एनमप्युपचारंनजानन्ति यथा 'आपृच्छय गन्तव्यम्' अथवा 'अदाक्षिण्याः' निस्नेहास्ततोऽनापृच्छया गता इति तदा चतुर्गुरुकम् । तथा द्विविधश्छेदः, तथाहि स प्रद्विष्टस्तेषामन्येषां वा साधूनां तद्रव्यस्य वसतिलक्षणस्यान्यद्रव्याणां वा भक्तपानादीनांव्यवच्छेदं कुर्यात् । “भरियभरागमनिच्छुभ"त्ति ततः स कषायितः शय्यातरो यदा ते साधवो भरितभाजनभरेणावनमन्त आगच्छन्ति तदा स्थानं न दद्यात् । तत्र यदि दिवा निष्कासयति तदा चत्वारो लघवः । तथा तैभरितैर्भाजनैः सहान्यांवसतिं याचमाना आगाढादिपरितापनामाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चित्तं चतुर्लघु ।
तथा जनमध्ये गर्हामाप्नुवन्ति-किं यूयमकाण्डे एवं निष्कासिताः?।ततः 'न भव्या एते' इत्यन्यत्रापितेवसतिंन लभन्ते । अन्यत्रच वसतिमलभमाना ग्रामादौव्रजन्तिततोमासकल्पभेदः। तत्रचविहारक्रमेया विराधना तन्निष्पन्नाऽपितेषामारोपणा।तथाऽन्येसाधवोविहारादिनिर्गतास्तत्र समागताः, ततर चान्या वसतिर्न विद्यते, स च शय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहाराद्यागता वसतेरलाभेयत्तेश्वापद-स्तेनादिभ्योऽनर्थमाप्नुवन्ति तन्निष्पन्नमपितेषांप्रायश्चित्तम्। एवं तावत् कृतभिक्षाटनमात्राणामुक्ता दोषाः । अथ बहिरेव भुक्त्वा रात्रावागता वसतिं न लभन्ते तदाऽऽरोपणा चतुर्गुरु, सविशेषतराश्च गर्हादयोदोषाः, विनाशश्च श्वापदादिभ्यः । अथवा सशय्यातरः प्रथमं सम्यग्दृष्टिभूतः पश्चाद् ‘अनापृच्छया गताः' इति भावविपरिणामतो मिथ्यात्वं यायात् ।। गतं मिथ्यात्वद्वारम् । अधुना बटुकद्वारमाह[भा.५४७] सुनंदटुं बडुगा, उभासिते ठाह जइ गया समणा ।
आगम पवेसऽसंखड, सागरि दिन्नं ति य दियाणं॥ [भा.५४८] संभिच्चेण व अच्छह, अलियं न करेमऽहं तु अप्पाणं ।
उहुंचग अहिगरणं, उभयपयोसंच निच्छूढा ।। [भा.५४९] सागरिय-संजयाणं, निच्छूढा तेन-अगनिमाईहिं।
जंकाहिंति पदुट्ठा, उभयस्स वि ते तमावजे ।। वृ-शून्यांवसतिं दृष्टवा बटुकाः' चाटाः सागारिकम् अवभाषन्ते याचन्ते-अस्माकमुपाश्रयं प्रयच्छत । शय्यातरो ब्रूते-तत्र श्रमणास्तिष्ठन्ति । बटुकैरुक्तम्-गतास्ते । शय्यातरः प्राहतर्हि तिष्ठत यूयं यदि गताः श्रमणाः ।तेस्थिताः ।आगताः साधवः प्रवेष्टुप्रवृत्ता वसत बटुकैर्निवारिताःमाऽत्र प्रविशथ, वयमग्रे तिष्ठामः । ततः ‘असङ्खडं' कलहः परस्परमुपजायते । बटुका ब्रुवतेवसतिरस्माकं स्वामिना दत्ता, किमत्र युष्माकम् ? । इतरेऽपि वदन्तिस्वामिनैवास्माकमपि वसतिरदायिततः साधवः शय्यातरसकाशंगच्छन्ति।सब्रूते-यूयमनापृच्छयाशून्यं कृत्वा गताः, मया ज्ञातम्-गता यूयं येन शून्यीकृता दृश्यते वसति, अतो मया 'द्विजानां' बटुकानां दत्ता वसति 'इति' तस्मात् ‘संवृत्येन' परस्पसञ्चिन्त्या यूयं बटुकाश्चैकत्र स्थाने तिष्ठत, नाहमास्मानलीकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org