________________
१४०
बृहत्कल्प-छेदसूत्रम् -१
करोमि । तत्र यदि संवृत्येन तिष्ठन्ति तत्रपठतां प्रतिलेखनां च कुर्वतां संयतभाषाभिश्च 'उड्डुञ्चकान्' देशीपदमेतद् उपहासान् कुर्यु, ततः 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्मान् बटुकान् निष्काशयेत्, तथा च सति 'अधिकरणं' संयतप्रयोगेण वयं निष्काशिताः तस्माद् ज्ञातव्यं संयतानाम् । अथवा ‘निच्छूढाः’निष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेष गच्छेयुः । ततस्ते एवं 'निक्षिप्ताः' निष्काशिताः सन्तः प्रद्विष्टाः स्तेनप्रयोगतोऽभ्यादिप्रक्षेपतश्च 'उभयस्यापि ' सागारिकस्य संयतानां च यद् अनर्थजातं च यद् अनर्थजातं करिष्यन्ति 'तदपि ' तन्निष्पन्नमपि प्रायश्चित्तं 'ते' संयताः शून्यवसतिकारिण आपद्यन्ते । गतं बटुकद्वारम् । इदानीं चारणद्वारं भटद्वारं चाह
[भा. ५५० ] एमेव चारण भडे, चारण उहुंचगा उ अहिगतरा । निच्छूढा व पदोसं, तेना-ऽ गणिमाइ जह बडुया ||
वृ- 'एवमेव' बटुकगतेनैव प्रकारेण चारणे भटे च दोषा वक्तव्याः । किमुक्तं भवति ? - ये बटुकेषु दोषा उक्तास्ते चारणे भटेच प्रत्येकमवसातव्याः । नवरंचारणा (णे] बटुकेभ्योऽधिकतराः, यतस्ते ‘उदञ्चकाः’ याचकाः । इयमत्र भावना - ते चारणाः प्रपञ्चबहुलाः, ततः संयतान् प्रपञ्चय तेभ्यो याचन्ते, ततस्तैः सहैकनिवासेऽधिकतरा दोषाः । तथा चारणा भटाश्च निष्काशिताः प्रद्वेषमापन्नाः स्तेनाग्न्यादिभिरुभयेषामप्यनर्थं कुर्युर्यथा बटुका इति ॥
इदानीं तिर्यङ्मरणद्वारं मनुष्यमरणद्वारमादेशद्वारं चाह
[भा. ५५१] छड्डुणिका उड्डाहो, घाणारिस सुत्तऽवन्न अच्छंते । इति उभयमरणदोसा, आएस जहा बडुगमाई ॥
वृ-शून्यां वसतिं दृष्ट्वा गवादिस्तिर्यङ अनाथमनुष्योवा प्रविश्य म्रियते त यदि गृहस्थैरसंयतैः परिष्ठापयन्ति तदा 'छर्दने' परिष्ठापने षण्णां कायानां पृथिव्यादीनां विराधना । अथाऽऽत्मना परिष्ठापयन्ति तदा प्रवचनस्योड्डाहः 'उचिता एतेऽस्य कर्मणः' इति । अथवा कोऽप्येवं शङ्केत, यथा-एतैरेवायंमारितः। अथवा जुगुप्सा भवेत् - अशुचयोऽमी यद् मृतकमाकर्षन्ति । अथैतद्दोषभयान्न ते स्वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति तर्हि मृतकगन्धेन संयतानां नासाशासि जायेरन् । तथाऽस्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रपौरुषीमर्थपौरुषीं चाकुर्वतां यदि सूत्रं नश्यति चतुर्लघु, अर्थो नश्यति चतुर्गुरु । अवर्णश्च लोकेषूपजायते-ग्राममध्येऽपि वसन्तः स्मशाने तिष्ठन्ति । 'इति' उपप्रदर्शने, एवम् 'उभयस्य' तिरश्चो मनुष्यस्य वा मरणे दोषाः । गतं तिर्यग्-मनुष्यमरणद्वारम् । अधुनाऽऽ देशद्वारमाह“आदेस जहा बडुगमादी” । 'आदेशाः ' प्राधूर्णकास्ते केचन शय्यातरस्य समागताः, शून्यां च वसतिं दृष्ट्वा शय्यातरेण तत्र मुक्ताः, ततो बटुक- चारण-भटेषु ये दोषास्तेऽत्रापि योजनीयाः ॥ गतमादेशद्वारम् । अधुना व्यालद्वारं निष्केतनद्वारं चाह
[भा. ५५२] अहिगरण मारणाऽणीणियम्मि अच्छंते वालि आयवहो । तिरितीय जहा वाले, सूतिमणुस्सीए उड्डाहो ।
वृ- ‘व्यालः' नाम सर्प शून्यं दृष्ट्वा वसतौ प्रविशेत्, तत आगताः सन्तः श्रमणा यदि तं निष्काशयन्ति तदऽधिकरणम्, हरितकायादीनां मध्येन तस्य गमनात् । अथवा स निष्काश्यमानः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org