________________
१३८
बृहत्कल्प-छेदसूत्रम् -१वृ-संयोजना द्विविधा-अन्तर्बहिश्च; तत्रान्तःसंयोजनायांचत्वारो लघवः, बहिसंयोजनायां चत्वारो गुरुकाः । अन्ये त्वन्तर्बहिर्वा संयोजनायां चत्वारो गुरुका इति प्रतिपन्नाः । प्रमाणातिरिक्तमाहारयति चत्वारो लघवः । “सइंगाले"त्ति साङ्गारे आहार्यमाणे चत्वारो गुरुकाः।सधूमे चतुर्लघु । निष्कारणे चतुर्लघु।सचित्तानन्तमिश्रेचतुर्गुरुकम्; एतच्च प्रागेव स्वस्थानेऽभिहितम्। तथा विष्वगुन्मिश्रे' पृथिवीकायादिभिप्रत्येकैर्मिघैरुन्मिश्रेलघुकोमासः,अनन्तैरुन्मिश्रे गुरुकः। "सेसे लहुगा उसव्वेसु' 'शेषेषु सर्वेष्वपि' ग्रहणैषणाभेदेषु ग्रासैषणाभेदेषु च चत्वारो लघुकाः, तेच तथैव योजिताः । गतः पिण्डकल्पिकः । सम्प्रति शय्याकल्पिकमाह[भा.५४१] दुविहा हवंति सेज्जा, दव्वे भावे यदव्व खायाती।
साहहि परिग्गहिया, ते चेव उभावओ सेजा। वृ-द्विविधा भवन्ति शय्याः-द्रव्यतो भावतश्च । तत्र द्रव्यतः 'खातादयः' खातमुच्छ्रितं खातोच्छ्रितं च । एता द्रव्यशय्याः साधुभिः परिगृहीता भावतः शय्या भवन्ति। [भा.५४२] रक्खण गहणे तुतहा, सेज्जाकप्पो उ होइ दुविहो उ।
सुन्ने बाल गिलाणे, अव्वत्ताऽऽरोवणा भणिया॥ कृ-शय्यायांकल्पतेइतिशय्याकल्पः शय्याकल्पिकइत्यर्थः। सद्विविधः-तस्याभावशय्याया रक्षणेग्रहणेच।तत्र रक्षणेप्रोच्यते-वसतिनिर्यमतस्तावद्क्षयितव्या, यदि पुनर्भिक्षादिप्रयोजनतो गच्छन्तः शून्यां वसतिं कुर्वन्ति बालं ग्लानमव्यंक्तं वा वसतिपालं स्थापयन्ति तदा ‘आरोपणा' प्रायश्चत्तं भणिता ॥तामेवोपदर्शयति__ [भा.५४३] पढमम्मि य चउलहुया, सेसेसुं मासियं मुनेयव्वं ।
दोहि गुरू इक्केणं, चउथपए दोहि वी लहुयं ॥ वृ-प्रथममिह गाथाक्रमप्रामाण्यात् शून्यमुच्यते । यदि शून्यां वसतिं वसतिं कुर्वन्ति तदाऽऽरोपणा चत्वारो लघुका द्वाभ्यां गुरवः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ बालं स्थापयन्ति तदा मासलघु तपोगुरु काललघु । ग्लानं स्थापयन्ति मासलघु तपोलघु कालगुरु । 'चतुर्थपदे' अव्यक्तस्थापनलक्षणे मासलघु द्वाभ्यामपि लघुकम्, तद्यथा-तपसा कालेन च ।। उक्ताऽऽरोपणा । साम्प्रतमेतेष्वेव दोषा वक्तव्याः, तत्र प्रथमं तावच्छून्ये दोषानाह[भा.५४४] मिच्छत्त बडुग चारण, भडाण मरणं तिरिक्ख-मनुयाणं।
आदेस वाल निक्केयणे य सुन्ने भवे दोसा॥ वृ-शून्यायां वसतौ कृतायां कदाचित् शय्यातरस्य मिथ्यात्वगमनम्, बटुकप्रवेशः, चारणप्रवेशः, भटप्रवेशः, तिरश्चां मनुष्याणां वा तत्र मरणम्, 'आदेशाः' प्राधूर्णकास्तप्रवेशः, व्यालप्रवेशः। एतेशून्ये उपाश्रये कृते दोषा भवन्ति । तथा निकेतने प्रसूतायाः स्त्रियास्तिरक्ष्या वा निष्कासने दोषाः । तत्र प्रथमं मिथ्यात्वद्वारमाह[भा.५४५] सोच्चा पत्तिमपत्तिय, अकयन्नु अदक्खिणा दुविह छेदो।
भरियभागमनिच्छुभ, गरिहा न लभंति वऽन्नत्थ ।।. [भा.५४६] भेदो य मासकप्पे, जदलंभे विहारादि पावते अन्नं ।
बहिभुत्त निसागमने, गरिहविनासा य सविसेसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org