________________
पीठिका - [भा. ५३८]
१३७ बीजेषु परीत्तेष्वनन्तरं परम्परंवा प्रतिष्ठितंगृह्णतः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तेषुगुरुकाणि। अन्ये तु ब्रुवते-प्रत्येकमिश्रेऽनन्तरं परम्परं वा प्रतिष्ठितमाददानस्य लघु रात्रिन्दिवपञ्चकम्, अनन्तमिश्रेऽनन्तरंपरम्परंवा प्रतिष्ठितंगृह्णतोगुरुकमिति।तथाऽपरे-प्रत्येकेसचित्तमनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघवः, परम्परप्रतिष्ठितंमासलघुः तथा प्रत्येके मिश्रेऽनन्तरप्रतिष्ठितमाददानस्य लघुको मासः, परम्परप्रतिष्ठितं गृह्णतो लघु रात्रिन्दिवपञ्चकम् अनन्ते मिश्रेऽनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठिते गुरु रात्रिन्दिवपञ्चकमिति । उक्तञ्च
पुढवी आऊ तेऊ, परित्ते चेव तह य वणकाये ।
चउलहुअनंतरम्मी, सच्चित्ते परंपरे मासो । मीसानंतर लहुगो, लहुपनग परंपरे परित्तेसु ।
एए चेव य गुरुगा, होंति अनंते पइट्ठाणे ॥ इति । वृ-त्रसकायेऽनन्तरप्रतिष्ठितं गृह्णतश्चतुर्लघुकम्, परम्परप्रतिष्ठितं गृह्णतो मासलघु; "तसकाये चतुलहुगा, अनंतरपरंपरट्ठिए लहुओ" इति वचनात् ।। एवं षड्जीवनिकायेषु प्रत्येकेऽनन्तेमिश्रेचपृथिव्यादौबीजेच प्रत्येकेऽनन्ते मिश्रेचानन्तरं परम्परंचप्रतिष्ठितमाददानस्य प्रायश्चित्तमिति । अधुना पिहितं संहरणं चाधिकृत्य प्रायश्चित्तमाह
[भा.५३९/१]एमेव य पिहियम्मी, लहुगा दव्वम्मि चेव अपरिणए।
“एवमेव' अनेनैव प्रकारेण पिहितेऽपि प्रायश्चित्तं वक्तव्यम् । किमुक्तं भवति?-यथा निक्षिप्ते प्रायश्चित्तुक्तमेवं येन द्रव्येण सचित्तेनाचित्तेन मिश्रेण वाऽनन्तरं परम्परकं वा पिधीयते तत्रापि द्रष्टव्यम्, नवरमचित्तेन गुरुकेण पिहिते गृह्णतश्चतुर्गुरुकम् । संहरणे-येनमात्रकेण भिक्षां दातुकामस्तत्र यदि किञ्चित् प्रक्षिप्तं वर्त्तते तदन्यत्र संहृत्य ददाति तच्च संहियमाणमद्याप्यपरिणतं तस्मिन्नपरिणते द्रव्ये संहते गृह्वतश्चत्वारो लघुकाः । दायके-प्रगलिते नपुंसके चत्वारो गुरुकाः, पिञ्जन-कर्तन-श्लक्ष्णखण्डकरण-प्रमर्दनप्रवृत्तेषु प्रत्येकं मासलघु, शेषेषु दायकदोषेषु चत्वारो लघुकाः । उन्मिश्रे-सचित्तानन्तमिश्रेचतुर्तेषुप्रत्येकंमासलघु, शेषेषुदायकदोषेषुचत्वारोलघुकाः। उन्मिश्रे-सचित्तानन्तमिश्रे चतुर्गुरु, मिश्रानन्तमिश्रे मासगुरु, सचित्तप्रत्येकमि चतुर्लघु, प्रत्येकमिश्रमिग्रेमासलघु ।।
[भा.५३९/२] विसुम्मीसे पनगं, अनंतबीए य पनग गुरू ॥
वृ- ‘विष्वगुन्मिश्रे' प्रत्येकबीजोन्मिश्रे लघु रात्रिन्दिवपञ्चकम्, अनन्तबीजोन्मिश्रे गुरु रात्रिन्दिवपञ्चकम् । अपरिणते-द्रव्यापरिणते कायनिष्पन्नम्, ये कायाः प्रत्येकरूपा अनन्तरूपा वा अपरिणतास्तन्निष्पन्नमित्यर्थः; तत्र पृथिव्यादिष्वपरिणतेषु चतुर्लघुकम्, अनन्तेष्वपरिणतेषु चतुर्गुरु । उक्तञ्च- दव्वापरिणते चउलहु, पुढवादी चउगुरू अनंतेसु । “भावापरिणते दोण्हंतु भुंजमाणाणमेगो तत्थ निमंतए" इत्येवंरूपे लघुको मासः, “भावापरिणते लघुगो" इति वचनात्। लिप्ते-आधेषु त्रिषु भङ्गेषु चत्वारो लघुकाः, चरमभङ्गेऽनेषणायां चतुर्गुरवः । छर्दिते-आयेषु त्रिषु भङ्गेषु प्रत्येकं चतुर्लघुकम्, चरमभङ्गेऽनाचीर्णम् ।। [भा.५४०] संजोग सइंगाले, अनंतमीसे वि चउगुरू होति ।
वीसुम्मीसे मासो, सेसे लघुका उ सव्वेसु ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org