________________
१३६
बृहत्कल्प-छेदसूत्रम् -१परद्रव्यक्रीतं च; भावक्रीतमपि द्विधा-आत्मभावक्रीतं परभावक्रीतं च; परभावक्रीते मासलघु स्वग्रामाभ्याह्यते मासलघु । “गंठि"त्ति ग्रन्थिपिहितमुच्यते, यत्र गुड-घृतादिभाजनमुखे पोतेन चर्मणा वा स्थगयित्वा दवरकेणोपरि ग्रन्थिीयते, ग्रन्थिसहिता मुद्रा वा तदुपचाराद् ग्रन्थिरित्यर्थः, तस्मिन्नुद्भिद्यमाने मासलघु । मालापहृतं द्विविधम्-जघन्यमुत्कृष्टं च; तत्र जघन्ये मालापहृते मासलघु तथा यावन्तिकेऽध्यवपूरके मासलघु । तदेवं यत्र ग्र मासलघु तत् तत् स्थानमुक्तम्, इदानीं ययोः पञ्च रात्रिन्दिवानिते वदति- “इत्तरठविए" इत्यादि।
__ इत्वरस्थापिते पञ्च रात्रिन्दिवानि । सूक्ष्मप्राभृतिकायामपि पञ्च रात्रिन्दिवानि । “लघुका य सेसेसु"त्ति येऽन्ये उद्गमदोषास्तेषु सर्वेष्वपि प्रत्येकं चत्वारो लघुकाः, तद्यथा-औद्देशिके करमणि १ यावन्तिकेमिश्रजाते२ प्रकाशकरणे ३आत्मद्रव्यक्रीते४परद्रव्य क्रीते५आत्मभावक्रीते ६लौकिकेऽपमित्ये७लौकिके परिवर्तिते ८परग्रामाभ्याहृते निष्प्रत्यपाये ९पिहितोद्भिन्ने १० कपाटोद्भिन्ने ११ उत्कृष्टे मालापहृते १२ आच्छेद्ये १३ अनिसृष्टे १४ एतेषु चतुर्दशसु स्थानेषु चत्वारोलघुकाः॥तदेवमुक्तमुद्गमदोषेषुप्रायश्चित्तम्। इदानीमुत्पादनादोषेषु तदभिधिसुराह[भा.५३६] दुविह निमित्ते लोभे, गुरुगा मायाए मासियं गुरुयं।
सुहुमे वयणे लहुओ, सेसे लहुगा य मूलं च ॥ वृ-निमित्तं त्रिविधम्-अतीतविषयंप्रत्युत्पन्नविषयमनागतविष्यच; तत्र 'द्विविधेनिमित्ते' प्रत्युत्पन्नविषयेऽनागतविषयेचतथा लोभेचप्रत्येकंचत्वारोगुरुकाः।मायायांमासगुरु । सूक्ष्मे' सूक्ष्मचैकित्स्ये वचनसंस्तवे च प्रत्येकं लघुको मासः । शेषेषु तु समस्तेषूत्पादनादो षेषु प्रत्येक चत्वारो लघवः, नवरं मूलकर्मणि मूलम् ।।सम्प्रति दशस्वेषणादोषेषु प्राश्चित्तमाह[भा.५३७] ससरक्खे ससिणिद्धे, पनगं लहुगा दुगुंछ संसत्ते।
उक्कुट्टऽनंते गुरुगो, सेसे सव्वेसु मासलहू ॥ वृ-शङ्किते-पञ्चविंशतेर्दोषाणां मध्ये यत् शङ्कितं तन्निष्पन्नमापद्यते प्रायश्चित्तम् । मेक्षिते'सरजस्केन' सचित्त-मिश्रपृथिवीकायरजोम्रक्षितेन हस्तेन मात्रकेण वा भिक्षां गृह्णतः पञ्च रात्रिन्दिवानि; अचित्तेन जुगुप्सितेन-विष्टा-मूत्र-मांस-लशुन-पलाण्डुप्रभृतिना म्रक्षिते गृह्यमाणे चत्वारो लघुकाः; गुड-घृत-तैलादिभिरपि कीटिकासंसक्तैर्मक्षितमाददानस्य चत्वारो लघवः; पुरःकर्मणि पश्चात्कर्मणि च चतुर्लघुकाः, अन्ये मासलघु प्रतिपन्नवन्तः; उत्कुट्टितेऽनन्ते सचित्ते वनस्पतिकायिके मासगुरु; चूर्णेऽप्यनन्ते सचित्तेमासगुरु; “सेसे सव्वेसु मासलहू" परीत्ते प्रत्येक कुट्टिते चूर्णेवाप्रत्येकंमासलघु; मिश्रेपरीत्तेसर्वत्रमासलघु; अनन्तेमासगुरु; तथा मृत्तिकालिप्तहस्ते यावन्तः सेटिकादयो मृत्तिकाया भेदास्तेषु सर्वेषु मासलघु ॥ निक्षिप्ते प्रायश्चित्तमाह[भा.५३८]चउलहुगा चउगुरुगा, मासो लहु गुरु य पनग लहु गुरुगं ।
छसुपरितऽनंत मीसे, बीए य अणंतर परे य॥ वृ. प्रत्येकसचित्तानन्तरप्रतिष्ठितमाददानस्य चत्वारो लघुकाः, प्रत्येकसचित्तपरस्परप्रतिष्ठितमपि चत्वारो लघवः । अनन्तसचित्तानन्तप्रतिष्ठितमाददानस्य चत्वारो गुरुकाः, अनन्तसचित्तपरम्पप्रतिष्ठितमपि गृह्णतश्चत्वारो गुरुकाः । प्रत्येकमिश्रेऽनन्तरप्रतिष्ठितं परम्परप्रतिष्ठितं वा गृह्णतो मासलघु । अनन्तमिश्रेऽन्तरं परम्परया वा प्रतिष्ठितमाददानस्य मासगुरु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org