________________
पीठिका - [भा. ५३२]
इह तु षोडशानामुद्गमदोषाणां प्रायश्चित्तमभिधित्सुराह
[भा. ५३३ ] गुरुगा अहे य चरमतिग मीस बायर सपच्चवायहडे । कड पूइए य गुरुगो, अज्झोयरए य चरमदुगे ।
१३५
वृ- " -"अहे य"त्ति आधाकर्म गृह्णतः प्रायश्चित्तं चत्वारो गुरुकाः । “चरमतिय”त्ति औद्देशिकं द्विविधम्-ओघेन विभागेन च तत्र विभागतो द्वादशविधम्, तद्यथा- उद्दिष्टं कृतं कर्म च उद्दिष्टं चतुर्विधम्-औद्देशिकं समुद्देशिकमादेशिकं समादेशिकं च; कृतमपि चतुर्विधम्, तद्यथा- उद्देशकृतं समुद्देशकृतमादेशकृतं समादेशकृतं च; कर्मापि चतुःप्रकारम्, तद्यथा उद्देशकर्म समुद्देशकर्म आदेशकर्म समादेशकर्म च; त्रयश्चतुष्कका द्वादश । इह यावन्तः केचन भिक्षाचराः समागच्छन्ति तावतः सर्वान् उद्दिश्य यत् क्रियते तद् उद्देशिकमुच्यते, पाषण्डिन उद्दिश्य क्रियमाणं समुद्देशम्, श्रमणानुद्दिश्याऽऽदेशम्, निर्ग्रन्थानधिकृत्य समादेशम् । उक्तञ्च
जावंतिय उद्देसो, पासंडीणं भवे समुद्देसो । समणाणं आदेसो, निग्गंथाणं समादेसो ॥
एतस्मिन् द्वादशविधे विभागोद्देशिके यत् चरमं त्रिकं- समुद्देशकर्म आदेशकर्म समादेशकर्म च तत्र गृह्यमाणे प्रत्येकं चत्वारो गुरुकाः तपः कालविशेषिताः । "मीस"त्ति मिश्रजातं त्रिविधम्यावन्तिकमिश्रं पाषण्डिकमिश्रं स्वगृहमिश्रं च तत्र पाषण्डिमिश्रे स्वगृहमिश्रे च प्रत्येकं चत्वारो गुरुकाः तपः-कालगुरवः । “सपच्चवायहडे" त्ति यत्र यत्र ग्रामादौ सप्रत्यपायमभ्याहृतं तत्र तत्र चत्वारो गुरुकाः । तदेवं येषूद्गमभेदेषु गुरुकास्ते उक्ताः, सम्प्रति येषु मासगुरु तान् प्रतिपादयति"कड पूइए य" इत्यादि । कृते उद्देशिके चतुःप्रकारेऽपि प्रत्येकं मासगुरुकं तपः- कालविशेषितम्, तद्यथा-यावन्तिके मासगुरु, समुद्देशकृते तपोगुरुकं मासगुरु, आदेशकृते कालगुरुकं मासगुरु, समादेशकृते मासगुरु द्वाभ्यां गुरुकं तपोगुरुकं कालगुरुकं च । “पूतिए”त्ति भावपूतिकं द्विविधम्सूक्ष्मं बादरं च; तत्र सूक्ष्मे नास्ति प्रायश्चित्तम्; बादरं द्विविधम्-उपकरणे भक्तपाने च; अत्र भक्तपानपूतिके मासगुरु । “अज्झोयरए य चरमदुगे” त्ति अध्यवपूरकं त्रिविधम्, तद्यथा- यावन्तिकमध्यवपूरकं पाषण्डाध्यवपूरकं स्वगृहाध्यवपूरकंच; तत्र पाषण्डाध्यवपूरके स्वगृहाध्यवपूरके च प्रत्येकं मासगुरु ।। उक्तानि गुरुकप्रायश्चित्तानि । अधुना लघुकप्रायश्चित्तान्यभिधित्सुराह[भा. ५३४] ओह - विभागुद्देसे, चिरठविए पागडे य उवगरणे । लोगुत्तर पामिचे, परियट्टिय कीय परभावे ॥
[भा.५३५] सग्गामभिहडि गंठी, जहन्न जावंति ओयरे लहुओ ।
इत्तरठविए सुहुमा, पनगं लहुगा य सेसेसु ॥
वृ- ओधौद्देशिके मासलघु । विभागौद्देशिके उद्देशे मासलघु, समुद्देशे मासलघु तपोगुरु, आदेशे मासलघु कालगुरु, समादेशे मासलघु द्वाभ्यां गुरु । स्थापितं द्विविधम्- चिरस्थापितमित्वस्थापितं च; तत्र चिरस्थापिते मासलघु । प्रादुष्करणं द्विविधम्-प्रकटकरणं प्रकाशकरणं च; तत्र प्रकटकरणे मासलघु । उपकरणपूतिके मासलघु । प्रामित्यं द्विविधम्-लौकिकं लोकोत्तरिकं च; लोकोत्तरिके मासलघु । परिवर्त्तितमपि द्विधा - लौकिकं लोकोत्तरिकं च; तत्र लोकोत्तरिके परिवर्त्तिते मासलघु । क्रीतं द्विविधम्-द्रव्यक्रीतं भावक्रीतंच; तत्र द्रव्यक्रीतं द्विविधम्-आत्मद्रव्यक्रीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org