________________
१३४
बृहत्कल्प-छेदसूत्रम् - १
नवनीए सप्पि वसा, गुले य लोणे अलेवो उ ॥
वृ- खरसंज्ञकेन तिलतैलेन यो लेपः स उत्कृष्टः, अतसीतैलेन कुसुम्भतैलेन च मध्यमः, सर्षपतैलेन जघन्यः । उक्तञ्च
सो पुन लेवो खरसन्हएण उक्कोसओ मुनेयव्वो । अयसि कुसुंभिय मज्झो, सरिसवतिल्लेण य जहन्नो ॥
'नवनीतेन' म्रक्षणेन ‘सर्पिषा' घृतेन वसया च निर्वृत्तो लेपोऽलेपो ज्ञातव्यः, तस्यपात्रे सम्यग् लगनाभावाद् जुगुप्सितत्वाच्च । तता गुडभृतेषु लवणभृतेषु वा शकटेषु तिलतैलम्रक्षितेष्वपि यो लेपः सोऽप्यलेपः, तस्यापि लवणाद्यवयवयोगतोऽप्रशस्तत्वात् ॥ तदेवमुक्तो लेपस्य विधि | साम्प्रतं लेपकल्पिकमाह
[भा. ५३०] पढिय सुय गुणियमगुणिय, धारमधार उवउत्तो परिहरति । आलोयायरियादी, आयरओ विसोहिकारो से ।।
वृ-यस्मादजानतः प्रायश्चित्तं तस्माद् येन ओघनिर्युक्तिसूत्रम् इयं वा कल्पपीठिका पठिता स्यात् श्रुता वा 'गुणिता' अत्यन्तस्वभ्यस्तीकृता स्याद् अगुणिता वा सा धारिता वा स्याद् अधारिता वा तथापि चेदुपयुक्तः सन् सूत्रोक्तप्रकारेण लेपं 'परिहरति' परिभोगयति स लेपकल्पिकः । तेन चलेपसूत्रेण पठितेनापठितेन वा गुणितेनागुणितेन वा धारितेनाधारितेन वा उपयुक्ते वाऽनुपयुक्ते वायां विराधनामापद्यते तामाचार्यादेः पुरत आलोचयति, प्रथमत आचार्यस्य, तदभावे उपाध्यायादेरपि । आलोचिते च "से" तस्य प्रायश्चित्तप्रदानेन विशोधिकारक आचार्यः ॥ उक्तो लेपकल्पिकः । सम्प्रति पिण्डकल्पिकमाह[भा.५३१]अप्पत्ते अकहित्ता, अणहिगयऽपरिच्छणे य चउगुरुगा ।
दोहि गुरु तवगुरुगा, कालगुरू दोहि लहुगा ॥
वृ- सूत्रं नाम प्रागासीदाचारगतं पिण्डैषणाध्ययनम्, इदानीं तु दशवैकालिकगतं पिण्डैषणाध्ययनम्, तस्मिन् ‘अप्राप्ते' अपठिते यदि पिण्डस्यानयनाय तं प्रेषयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः । अथ सूत्रं प्राप्तस्तथापि यदि तस्यार्थमकथयित्वा प्रेषयति तदा चत्वारो लघुकाः, नवरमेकेन कालेन लघवः । अथ कथितोऽर्थ परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न तं सम्यक् श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा प्रेषयतश्चत्वारो लघुकास्तपसैकेन लघवः । अथाधिगतार्थमप्यपरीक्ष्य प्रेषयति तदा चत्वारो लघुका द्वाभ्यां लघवः, तद्यथा-तपसा कालेन च ॥ यत एवं प्रायश्चित्तमतः
[भा. ५३२] पढिए य कहिय अहिगय, परिहरती पिंडकप्पितो एसो । तिविहं तीहि विसुद्धं, परिहरनवगेण भेदेनं ॥
वृ-पिण्डैषणाध्ययने पठिते तस्यार्थे कथिते तेन चाधिगते उपलक्षणमेतत् सम्यक् श्रद्धिते चयः 'त्रिविधम्' उद्गशुद्धमुत्पादनाशुद्धमेषणाशुद्धं 'त्रिभि' मनोवाक्कायैर्विशुद्धं परिहारविषयेण नवेन भेदेन परिहरति, तद्यथा - मनसा न गृह्णाति नाप्यन्यैर्ग्राहयति न च गृह्यन्तमनुजानीते, एवं वाचा कायेनापि प्रत्येकं त्रिकं त्रिकमवसातव्यम्, एष पिण्डकल्पिकः । अत्र पिण्डनिर्युक्तिः सर्वा वक्तव्या, सा च ग्रन्थान्तरत्वात् स्वस्थाने एव स्थिता प्रतिपत्तव्या ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org