________________
पीठिका - [भा. ५२४]
१३३ तस्मिन्ननवतिष्ठमाने सर्वं लेपमपनीय ततः पुनर्मूलतः पात्रं लिम्पेत् यथा स लेपोऽवतिष्ते । “तजाए"त्यादि । इह यद् अलाब्वादिपात्रं तैलादिना ‘सचोप्पडं' सस्नेहं तत्र च धूलि प्रभूता लग्नातंलेपंघट्टकपाषाणेन घट्टयित्वा तद्गतेनैव चलेपेन भूयस्तत्पात्रंरञ्जयित्वा ततःप्रक्षालयति एष तज्जातो नाम लेपः ॥ सम्प्रति लेपस्यैव भेदानाह[भा.५२५] तज्जायजुत्तिलेवो, दुचक्कलेवो य होइ नायव्यो ।
मुद्दियनावाबंधो, तेनगबंधो य पडिकुट्ठो । वृत्रिविधोलेपोभवतिज्ञातव्यः, तद्यथा-तज्जातलेपो युक्तिलेपोद्विचक्रलेपश्च। द्विचक्रलेपो नाम शकटलेपः । तत्र लिप्यमानं लिप्तं वा यदि पात्रं कथमपि भङ्गमाप्नुयात् ततोऽन्यस्याभावे मुद्रितनौबन्धेन बनीयात्न स्तेनकबन्धेन, यतो मुद्रितनौबन्धएवतीर्थकरैरनुज्ञातःस्तेनकबन्धस्तु प्रतिक्रुष्टः॥साम्प्रतमेनामेवगाथांविवरीषुस्तज्जातलेपस्यप्राग्व्याख्यातत्वात्शेषपदव्याख्यानार्थमाह[भा.५२६] जुत्ती उ पत्थरायी, पडिकुट्ठा सा उ सन्निही काउं।
दय सुकुमाल असन्निहि, दुचक्कलेवो अतो इट्ठो॥ वृ- 'युक्ति' पदैकदेशे पदसमुदायोपचाराद् युक्तिलेपः ‘प्रस्तरादि' प्रस्तरादिकृतः, आदिशब्दाच्छर्करा-लोहकिट्ट-केदारमृत्तिकादिपरिग्रहः, सा च युक्ति सन्निधिरिति कृत्वा तीर्थकरगणधरैः 'प्रतिक्रुष्टा' निराकृता । तज्जातलेपश्च कदाचिदवाप्यते । तत एतेषु लेपेषु मध्ये शकटलेपः सुन्दरः, यतस्तस्मिन् सुकुमारतया पानजातयो जन्तवः स्पष्टा द्दश्यन्ते, दृश्यमानेषुच तेषु दयां कर्तुं शक्यते, न च तत्र सन्निधिदोषः, अतः सुन्दरत्वात् स एव द्विचक्रलेप इष्टः ।। [भा.५२७] संजमहेउं लेवो, न विभूसाए वयंति तित्थयरा।
सति-असतीदिटुंतो, विभूसाए सहोंति चउगुरुगा॥ वृ-लेपः पात्रस्य दातव्यः संयमहेतो न विभूस्षया, उपलक्षणमेतत्, नापि गौरवेणइति भगवन्तस्तीर्थकरावदन्ती। संयमहेतोः पुनर्दीयमानेलेपेयदिविभूषा भवति तथापिसासंयमहेतुरेव। अत्र सत्या असत्याश्च दृष्टान्तः । तथाहि-सत्यप्यात्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानंविभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम्, इतरा जारतोषणनिमित्तमिति दोषवत्। एवं यथा सत्यसत्यौ तथा साधू, यथा विभूषणं तथा लेपः, यथा कुलाचारस्तथा संयमः, यथाजारतोषणंतथा असंयमः । विभूषया लेपंददतःप्रायश्चित्तंचत्वारो गुरुकाः, उपलक्षणमेतत्, तेन गौरवेणापि ददत एतत् प्रायश्चित्तमवसातव्यम् । उक्तञ्च[भा.५२७] संजमहेऊ लेवो, न विभूसा गारवेण वा देयो।
चउगुरुग विभूसाए, लिंपिते गारवेणं वा ॥ . [भा.५२८] भिजिज्ज लिप्पमाणं, लित्तं वा असइए पुणो बंधे ।
___मुद्दियनावाबंधे, न तेनबंधेण बंधेजा ।। वृ-तत् पात्रं लिप्यमानं लिप्तं वा कथमपि हस्तपतनादिना भिद्येत न चान्यत् पात्रं विद्यते ततस्तत् पात्रं भूयो मुद्रितनौबन्धेन बध्नीयात् न स्तेनकबन्धेन ।
सम्प्रति लेपस्य जघन्यादिभेदानाह[भा.५२९]खर अयसि-कुसुंभ सरिसव, कमेण उक्कोस मज्झिम जहन्नो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org