________________
१३२
बृहत्कल्प-छदसूत्रम् -१.
छन्ने य निसिं कुजा, कयकज्जाणं विवेगो उ । वृ-यस्मिदिने पात्रलेपनंतस्मिन्नेवदिवसे 'कुम्भमुखादीनां' घटकण्ठादीनाम्आदिशब्दात् स्थालीकण्ठादिपरिग्रहः 'प्रत्युपेक्षा भवति कर्त्तव्या कुटकण्ठादीनितस्मिन् दिनेआनेतव्यानीत्यर्थः। किमर्थम्? इत्यत आह-निशि' रात्रौ तेषामुपरिछन्ने प्रदेशे लिप्तानि पात्राणि कुर्यादित्येवमर्थम्। तदनन्तरं तेषां घटमुखादीनां कृतकार्याणां 'विवेकः' परिष्ठापनिका ।। [भा.५२०] अट्टगहेउं लेवाहिगंतु सेसं सरूयगं पीसे।
अहवा वि न दायव्वो, सरूयगं छारे तो उज्झे॥ वृ-'शेषम्' अधिकंपम् ‘अट्टकहेतोः' अट्टकनिमित्तं सरूतकं पेषयेत् । अथवाऽपि न दातव्योऽट्टकस्ततस्मधिकं सरूतकं लेपं क्षारे' भस्मनि ‘उज्झेत्' परिष्ठापयेत् । अयं चार्थो यत्र भणितुमुचितस्तत्र प्रागेवोपदर्शितः । सम्प्रति तु गाथाक्रमानुलोमत उक्तः ॥ [भा.५२१] पढम-चरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वज्जित्ता।
पायं ठवे सिणेहादिरक्खणट्ठा पवेसे वा।। वृ-'शिशिरे' शीतकाले प्रथमचरमे पौरुष्यौ वर्जयित्वा ‘ग्रीष्मे' उष्णकाले 'तयोः' प्रथमचरमपौरुष्योरर्द्धमर्द्ध वर्जयित्वा पात्रमुष्णे स्थापयेत् । प्रथमचरमपौरुष्यादिकाले तु मध्ये प्रवेशयेत् । किमर्थम् ? इत्याह-'स्नेहादिरक्षार्थ' स्नेहः-अवश्यायः आदिशब्दाद् महिकाहिमवर्षादिपरिग्रहःतद्रक्षणार्थम् । इयमत्र भावना-शिशिरकालेप्रथमायां पौरुष्यामतिक्रान्तायामुष्णे ददाति, चरमायांतुपौरुष्यामनवगाढायांमध्ये प्रवेशयति, अन्यथाशिशिरकाले कालस्य स्निग्धतया प्रथमायांचरमायांच पौरुष्यामवश्यायादिपतनभावतोलेपविनाशप्रसङ्गात्।उष्णकाले तुप्रथमायाः पौरुष्या अर्धेऽपक्रान्तेपात्रमुष्णे दद्यात्, चरमायास्तुपौरुष्याः पश्चिमेऽ.ऽनवगाढेमध्ये प्रवेशयेत्, कालस्य रूक्षतया तत ऊद्धर्वं पश्चाच्चावश्यायादिसम्भवात् ॥ [भा.५२२] उवयोगं च अभिक्खं, करेति वासादि-साणरक्खट्ठा।
वावारेति व अन्ने, गिलाणमादीसु कञ्जेसु ॥ वृ- उष्णे च पात्रेदत्ते सति स वर्षादिभ्यो रक्षणार्थम्, वर्ष-वृष्टिः आदिशब्दाद् हिमप्रपातादिपरिग्रहः, श्वा-कुक्कुरस्तद्रक्षणार्थम् ‘अभीक्ष्णम्' अनवरतमुपयोगं करोति । यदि वा ग्लानादिप्रयोजनेषु समापतितेष्वन्यान् साधून् व्यापारयति, स तु तत्रैव रक्षयन् तिष्ठति ॥
अथ कियन्तः पात्रस्य लेपा दीयन्ते? इत्याह[भा.५२३] एक्को य जहन्नेणं, बिय तिय चत्तारिपंच उक्कोसा।
संजमहेउं लेवो, वज्जित्ता गारव विभूसं ॥ वृ-पात्रस्य संयमहेतोर्जघन्येनैको लेपो दातव्यः, मध्यमतो द्वौ त्रयो वा, उत्कर्षतश्चत्वारः पञ्च वा वर्जयित्वा गौरवंविभूषां च । गौरवेणात्मनो महर्द्धिकत्वमननलक्षणेन विभूषया वा न लेपो दातव्यः, किन्तु संयमस्फातिनिमित्तमिति ॥ [भा.५२४] अणवट्टते तह वि उ, सव्वं अवनेत्तु तो पुणो लिंपे।
तज्जाय सचोप्पडयं, घट्ट रएउं ततो धोवे। वृ-उत्कर्षतः पञ्चस्वपि लेपेषु यदि स लेपः नावतिष्ठते-न पात्रेण सह लोलीभवति ‘ततः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org