SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पीठिका- [भा. ५१२] १३१ नोद्वानस्ततोऽन्येषामभक्तार्थिनामहिण्डमानानां वा तत् पात्रं समप्यानयेन पानीयमानयेत् ॥ [भा.५१३] अभतट्ठीणं दाउं, अन्नेसिंवा अहिंडमाणाणं । हिंडेज्ज असंथरणे, असती घेत्तुंअरइयंतु॥ वृ-यदि स भक्तार्थी न च पात्रस्य लेपोऽद्यापि शुष्कस्ततः ‘असंस्तरणे' भोजनमन्तरेण संस्तरीतुमशक्तौ अभक्तार्थिनामन्येषांवा साधूनामहिण्डमानानांतत् पात्रं समर्प्य हिण्डेतअसति अन्येषामभक्तांर्थिनामहिण्डमानानां वा अभावे तद् ‘अरञ्जितम्' अद्याप्यपरिणतलेपं गृहीत्वा हिण्डेत ।। [भा.५१४] न तरिजा जति तिन्नि उ, हिंडावेउं ततो नु छारेण । ओयत्तेउं हिंडइ, अन्ने व दवं से गिण्हंति॥ वृ- यदि त्रीणि पात्राणि हिण्डापयितुं न शक्नोति ततः 'नु' निश्चितं तत् पात्रमुपाश्रये क्षारेण 'अवनम्य' स्थगयित्वा हिण्डते। यदि वा 'से' तस्ययोग्यं द्रवमन्ये गृह्णन्तिततोरिक्तपात्रवहने न कश्चिद्भार इत्यदोषः॥ [भा.५१५] लित्थारियाणि जाणि उ, घट्गमादीणि तत्थ लेवेण । संजमभूतिनिमित्तं, ताई भूईए लिंपिज्जा ।। . वृ-'तत्र' पात्रलेपने तानि लेपेन घट्टकादीनि ‘लेत्यारियाणि' देशीपदमेतत् खरण्टितानि 'संजमभूतिनिमित्तं' संयमविभूतिहेतोः 'भूत्या' क्षारेण तानि लिम्पेद् येन तत्संस्पर्शतस्त्रसानां स्थावराणां वा विनाशो न भवति ॥ [भा.५१६] एवं लेवग्गहणं, आनयणं लिंपणाय जयणा य । भणियाणि अतो वोच्छं, परिकम्मविहिं तु लित्तस्स ।। वृ-‘एवम्' उक्तेन प्रकारेण लेपस्य ग्रहणम्आ नयनंपात्रस्य लेपनाय सर्वत्र यतना एतानि भणितानि । अत ऊर्ध्वं पुनर्लिप्तस्य परिकर्मविधिं वक्ष्यामि ।। तमेवाभिधातुकाम आह[भा.५१७] लित्ते छाणिय छारो, घनेन चीरेण बंधिउं उण्हे । उव्वत्तण परियत्तण, अंछिय घोए पुणो लेवो ।। वृ-पात्रे लिप्ते सति यः ‘क्षाणितः' गालितः क्षारः' भस्म स तत्र प्रक्षिप्यते, ततो घनेन चीरेण बद्धवा उष्णे ध्रियते, तत्र च पात्रस्योद्वर्तनं परिवर्तनं च तावत् कर्तव्यं यावद् लेपः शुष्को भवति, ततः पात्रम् 'अञ्झ्यते' आकृष्यते, आकृष्य पानीयेन प्रक्षाल्यते, ततः प्रक्षालिते सति पुनरपि लेपो दीयते ॥ [भा.५१८] काउंसरयत्ताणं, पत्ताबंधं अबंधगं कुजा । साणाइरक्खणट्ठा, पमज्ज छाउण्हसंकमणा ।। वृ-पात्रेभूयो लिप्ते सति तस्योपरि 'सरजस्त्राणं' रजस्त्राणसहितंपात्राबन्धम् 'अबन्धकम्' अग्रन्थिकं कुर्यात् । कस्मादबन्धकं कुर्याद् ? अत आह-श्वादिरक्षणार्थं' शुन आदिशब्दान्मर्कटमार्जारादिभ्योऽपि रक्षणार्थम्, अन्यथा हि ग्रन्थौ दत्ते सपात्रबन्धं पात्रं श्वादिभिर्नीयते । तथा छायायामुष्णे च पात्रस्य सङ्कमणे(णा)' प्रमृज्य तत् पात्रं स्थापयितव्यम्॥ [भा.५१९] तद्दिवसं पडिलेहा, कुंभमुहादीण होइ कायव्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy