SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ५०४] १२९ लघुकाः । गतं चलद्वारम् । अधुना युक्तद्वारमाह-"जुत्ते वी"त्यादि, युक्तं नाम-योक्रितबलीबर्दै तत् स्थापयित्वायदि लेपंगृह्णाति ततः प्रायश्चित्तं चत्वारोगुरुकाः, यतस्तत्रापिस एवान्तरायदोषः। अन्यश्चायम्-ते बलीवर्दा वित्रस्येयुः, तत्र गन्त्रया चलन्त्या चरणाक्रमणे आत्मविराधना, संयमविराधना त्रसादिनिपातः ।। सम्प्रति वत्सद्वारं श्वद्वारं चाह' [भा.५०५] वच्छो भएण नासति, भंडिक्खोभे य आयवावत्ती। आया वयण साणे, काया य भएण नासते॥ वृ-यत्र शकटे वत्सो बद्धः श्वा वा यस्याधस्तात् तिष्ठति बद्धो वा वर्तते, तत्र वत्से लेपं गृह्णतश्चत्वारो लघुकाः शुनिचत्वारो गुरुकाः; यतो वत्सोभयेन नश्यति, तस्मिंश्चनश्यति गन्त्र्याः 'क्षोभे' चलने आत्मव्यापत्ति; तथा श्वा समागच्छन्तमपूर्वं दृष्ट्वा दशति तत्रात्मोपघातः, शुना लीढं लेपममी गृह्णन्तीति प्रवचनोपघातः, भयेन नश्यति शुनि “कायाः' पृथिवीकायादयो विनाशमापद्यन्ते ततः संयमोपघातश्च ।। सम्प्रति जलस्थितद्वारं पृथिवीस्थितद्वारं चाह [भा.५०६/१]जे चेव य हरिएसुं, सो चेव गमो उ उदग पुढवीए। वृ-य एव गमः प्राग् हरितेषूक्तः स एवोदके पृथिव्यां च वेदितव्यः । इयमत्र भावनासचित्ते उदके साधुरनन्तरप्रतिष्ठितो न परम्परप्रतिष्टित इत्यादि चतुर्भङ्गी, गव्यामप्येवं चतुर्भङ्गी, उभयोरपि चतुर्भङ्गी, तदेवं चतुर्भङ्गीत्रयं सचित्ताप्काये । एवं मिश्राफ्कायेऽपि चतुर्भङ्गीत्रयमवसातव्यम् । उभयमीलने चतुर्भङ्गीषट्कम् । एवं चतुर्भङ्गीषट्कं पृथिवीकायेऽपि भावनीयम् । तत्र सचित्तेऽप्काये साधावनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्लघु, परम्परप्रतिष्ठितेऽपि चतुर्लघु, उभयप्रतिष्ठिते द्वे चतुर्लघुके, चरमभङ्गे शुद्धः । गन्त्र्यामप्यनन्तरप्रतिष्ठितायां चतुर्लघु, परम्परप्रतिष्ठितामपिचतुर्लघु, उभयप्रतिष्ठितायांद्वेचतुर्लधुके, चरमेशुद्धः ।साधु-गन्त्र्योरनन्तरप्रतिष्ठितयोढे चतुर्लघुके, परम्परप्रतिष्ठितयोरपि द्वे चतुर्लघुके, उभयोरुभयत्रप्रतिष्ठितयोश्चत्वारि चतुर्लघुकानि, चरमभङ्गे शुद्धः । मिश्रेऽप्काये साधावनन्तरप्रतिष्ठिते मासलघु, परम्परप्रतिष्ठितेऽपि मासलघु, उभयप्रतिष्ठिते द्वे मासलघुके, चरमे शुद्धः । एवं गन्त्र्यामपि भङ्गचतुष्टये वक्तव्यम् । साधुगन्त्र्योरनन्तरप्रतिष्ठितयोद्वैमासलघुके, उभयोरुभयत्र प्रतिष्ठितयोरपिवेमासलघुके, उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि मासलघुकानि, चरमभङ्गे शुद्धः । एवं पृथिवीकायेऽपि चतुर्भङ्गीषट्के प्रायश्चित्तमवगन्तव्यम् ॥ सम्प्रति सम्पातिमद्वारं श्यामाद्वारं चाह [भा.५०६/२] संपाइमा तसगणा, सामाए होइ चउभंगो॥ वृ-“संपातिमा" इत्यादि । अथ के नामसम्पातिम येषुपतत्सु लेपोन गृह्यते?, किंत्रसाः स्थावरावा? तत्राह-सम्पातिमास्त्रसगणा न स्थावराः । तेषु सम्पातिमेषुपतत्सु यदि लेपं गृह्णाति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । श्यामा-रात्रिस्तत्र चतुर्भङ्गी, तद्यथा-रात्रौ लेपं गृह्णाति रात्रावेव च भाजनस्य लेपं ददाति, अत्र प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन च गुरवः, रात्रौ लेपं गृहीत्वा दिवसे भाजनस्य ददाति चत्वारो लघुकास्तपोगुरुकाः काललघवः, दिवसे लेपं गृहीत्वा रात्री भाजनस्य ददाति चत्वारो लघुकास्तपोलघवः कालगुरुकाः, दिवसे गृहीत्वा दिवस एव ददाति शुद्धः ।। महावातादिद्वारत्रयमाह189 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy