________________
-
१२८
बृहत्कल्प-छेदसूत्रम् -१तथा प्रत्येकहरितेषु साधौ गन्त्रयां चानन्तरप्रतिष्ठितायां द्वे चतुर्लघुनी, द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लधुके, तृतीये भङ्गे उभयोरुभयत्र प्रतिष्ठितयोश्चत्वारि चतुर्लघुकानि, चरमे भङ्गेशुद्धः।तथा हरितेष्वनन्तेषु साधावनन्तरप्रतिष्ठितेप्रायश्चित्तं चतुर्गुरुकम्, द्वितीयेऽपि परम्परप्रतिष्ठिते चतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्गुरुके, चरमे शुद्धः । गन्त्र्यामप्यनन्तहरितेऽनन्तरप्रतिष्ठितायां चतुर्गुरु, परम्परप्रतिष्ठितायामपि चतुर्गुरु, उभयप्रतिष्ठितायां द्वे चतुर्गुरुके, चरमेशुद्धः । अनन्तहरितेषु साधौ गध्यांचानन्तरप्रतिष्ठिताया द्वे चतुर्गुरुके, परम्परप्रतिष्ठितायामपि द्वे चतुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शुद्धः । तथा मिश्रेषुप्रत्येकहरितेषुसाधावनन्तरप्रतिष्ठितेमासलघु, परम्परप्रतिष्ठितेऽपिमासलघु, उभयप्रतिष्ठिते द्वेमासलघुके, चरमे भङ्गेशुद्धः । गन्त्र्यामप्यनन्तरप्रतिष्ठितायां मासलघु, परम्परप्रतिष्ठितायामपि मासलघु, उभयप्रतिष्ठितायांद्वे मासलघुके, चरमे भङ्गेशुद्धः साधौगन्त्रयांचाऽनन्तरप्रतिष्ठितायां द्वे मासलघुके, परम्परप्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चत्वारि मासलघुनि, चरमे भङ्गे शुद्धः। तथा मिश्रेष्वनन्तहरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परम्परप्रतिष्ठितेऽपि मासगुरु, उभयप्रतिष्ठिते द्वेमासगुरुके, चतुर्थे शुद्धः।
__गन्त्र्यामपि अनन्तप्रतिष्ठितायां मासगुरु, परम्पर प्रतिष्ठितायामपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः । साधौ गन्त्र्यां चानन्तरप्रतिष्ठितायां द्वे मासगुरुके, परम्पर-प्रतिष्ठितायामपि द्वे मासगुरुके, उभयप्रतिष्ठितायां चत्वारि मासगुरुकाणि, चरमभङ्गे शुद्धः । “पणगलहुगुरुग"मिति बीजेषुप्रत्येकेषुसचित्तेषुमिश्रेषुवाप्रत्येकं साधावनन्तरप्रतिष्ठिते द्वेलघुपञ्चके, चमभङ्गेशुद्धः। तथागन्त्र्यामनन्तरप्रतिष्ठितायांलघुपञ्चकम्, परम्परप्रतिष्ठितायामपि लघुपञ्चकम्, उभयप्रतिष्ठितायांद्वेलघुपञ्चके, चरमभङ्गे शुद्धः ।साधौगन्त्रयां चानन्तरप्रतिष्ठितायां द्वे लघुपञ्चके, परम्परप्रतिष्ठितायामपि द्वे लघुपञ्चके, उभयप्रतिष्ठितायां चत्वारि लघुपञ्चकानि, चरमभङ्गेशुद्धः । एवमनन्तेषुरात्रिन्दिवपञ्चकं गुरुकंद्रष्टव्यम् । एवं बीजेचशब्दाद्धरितेच प्रत्येके सचित्तेऽनन्ते सचित्ते मि चानन्तरे परम्परे च 'षट्सु' षट्सु भङ्गेषु यथायोगं प्रायश्चित्तमवगन्तव्यम्।
इदानीं चलादिद्वारप्रतिपादनार्थमाह[भा.५०३] दब्बे भावे य चलं, दव्वम्मी दुट्ठियं तुजं दुपयं ।
आयाए संजमम्मि य, दुविहा उ विराहणा तत्थ ।। वृ-चलं नाम द्विविधम्, तद्यथा-द्रव्यतो भावतश्च । तत्र द्रव्यतश्चलं यद् ‘द्विपदं' शकटं दुस्थितम्, तत्र लेपं गृह्णतश्चतुर्गुरुकम् । यतस्ततो द्विविधा विराधना-आत्मनि संयमे च । तत्रात्मविराधना शकटेन पतताऽभिधातसम्भवात् । संयमविराधना शकटे सञ्चाल्यमाने प्राणजात्युपमर्दनात्॥ [भा.५०४] भावचल गंतुकामं, गोणाईअंतराइयं तत्थ ।
जुत्ते वि अंतरायं, वित्तसचलणे य आयाए। वृ-भावचलं नाम ‘गन्तुकामं' योज्यमानमित्यर्थः, तत्र यावद्लेपोगृह्यतेतावबलीवर्दानां चारि-पानीयनिरोधनम्, आदिशब्दान्मनुष्याणामप्यन्तरायम्।ततोभावचलेऽपिलेपंगृह्णतश्चत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org