________________
पीठिका- [भा. ४९८]
१२७
मम राज्येन कोऽपि शकटं तैलेन म्रक्षयेत् किन्तुघृतेनान्येन वा ।। [मा.४९९] तम्हा दुचक्कपतिणा, तस्संदिटेण वा अणुन्नाते।
कटुगंधजाणणट्ठा, जिंघे नासं अघटुंतो॥ कृ-यस्मादेवं भद्रक-प्रान्तदोषास्तस्माद्राजा नानुज्ञापयितव्यः? इति चेद् उच्यते-यस्तस्य द्विचक्रस्य-शकटस्य पति-स्वामीयोवातेन-शकटपतिना सन्दिष्टः, तेन द्विचक्रपतिना तत्सन्दिष्टेन वाऽनुज्ञातेतैलस्यकिल कटुको गन्ध इति 'कटुगन्धज्ञानार्थं' कटुगन्धोऽस्तिन वेति परिज्ञानार्थं नासाम् 'अघट्टयन् असंस्पृशन्तं लेपं दूरस्थो जिघ्रति । घ्राते च यदि कटुको गन्धः समायाति ततस्तैललेप इति कृत्वातं समादत्ते॥सम्प्रति “छक्कायजयणाए" इति व्याख्यानयति. [भा.५००] हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए।
पुढवी संपातिमा सामा, महावाते महियाऽमिते॥ कृ-हरिते बीजे वा साधौ शकटे वा प्रतिष्ठिते, तथा चले बलीवाभ्यां युक्ते वा शकटे, तथाशकटेनसह बद्धे वत्से, शकटस्याधः स्थिते शुनि वा, तथा जलस्योपरि स्थिते, पृथिव्यां वासचित्तपृथिवीकायस्योपरि प्रतिष्ठिते शकटे, तथा सम्पातिमेषु-त्रसगणेषु सत्सु, तथा 'श्यामा' रात्रिस्तस्याम्, महावाते वा वाति, महिकायां निपतन्त्यां लेपग्रहणं नानुज्ञातम् । नाप्यमितस्य लेपस्य ग्रहणम् । एष द्वारगाथासक्षेपार्थः । व्यासार्थस्तु प्रतिद्वारं वक्ष्यते ।। तत्र यद्यप्यनन्तरं प्रायश्चित्तगाथाद्वयं तथापि नाव्याख्यातेषु द्वारेषु तद् व्याख्यातुं शक्यमिति प्रथमतो द्वाराणि व्याख्यायन्ते । तत्र हरितद्वारं बीजद्वारं चाधिकृत्याह[भा.५०१] हरिए बीए पतिट्ठिय, अनंतर परंपरे यबोधव्वे।
परितानंते यतहा, चउभंगो होति नायव्वो॥ कृ-हरितेबीजेच साधौ शकटे वाअनन्तरं परम्परके वा प्रतिष्ठिते प्रत्येकं चतुर्भङ्गी भवति ज्ञातव्या । गाथायां पुंस्त्वं प्राकृतत्वात् । तथा हरिते बीजेच प्रत्येकं परीत्तेऽनन्ते च साधौ शकटे वाऽनन्तर-परम्परप्रतिष्ठिते प्रत्येकं चतुर्भङ्गी । इयमत्र भावना-हरितेषु साधुरनन्तरप्रतिष्ठितो नो परम्परप्रतिष्ठितः१परम्परप्रतिष्ठितो नानन्तरप्रतिष्ठितः २ अनन्तरप्रतिष्ठितोऽपि परम्परप्रतिष्ठितोऽपि३नानन्तरप्रतिष्ठितो नापि परम्परप्रतिष्ठितः। एवं बीजेष्वपिसाधुमधिकृत्य चतुर्भङ्गः। एवं गन्त्रीमप्यधिकृत्य हरितेषुबीजेषु च प्रत्येकं चतुर्भङ्गी द्रष्टव्या-हरितेष्वनन्तरं प्रतिष्ठिता गन्त्री नोपरम्पप्रतिष्ठिता इत्यादि । एवं सर्वसङ्कलनया चतुर्भङ्गी चतुष्टयं जातम् । चतुर्भङ्गीद्विकंतु साधुगन्त्रीसंयोगतोद्रष्टव्यम्।तद्यथा-हरितेषुसाधुर्गन्त्रीवाऽनन्तरप्रतिष्ठितानोपरम्परप्रतिष्ठिता इत्यादि भङ्गचतुष्टयं प्राग्वत् । एवं बीजेष्वपि । सर्वसङ्ख्यया षट्चतुर्भङ्गयः । एतच्च चतुर्भङ्गीषट्कं किल प्रत्येकेषु हरित बीजेषूक्तम्। एवमनन्तेष्वपिद्रष्टव्यम्। एवं मिश्रेष्वपि।।साम्प्रतमत्रैव प्रायश्चित्तमुच्यते[भा.५०२]चउरो लहुगा गुरुगा, मासो लहु गुरु य पनग लहु गुरुयं ।
छसुपरितऽनंत मीसे, बीजेय अणंतर परे य॥ वृ-हरितेचशब्दसंसूचिते प्रत्येकेऽनन्तर-परम्परभेदतस्त्रिष्वाद्येषु भङ्गेषु चत्वारो लघुका वक्तव्याः।इयमत्र भावना प्रत्येकेषुहरितेषु साधावनन्तरप्रतिष्ठितेप्रथमे भङ्गेप्रायश्चित्तंचतुर्लघु, द्वितीयेपरम्परप्रतिष्ठितेचतुर्लघु, तृतीये भङ्गेऽनन्तरपरम्परप्रतिष्ठिते द्वेचतुर्लघुके, चरेभङ्गे शुद्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org