________________
पीठिका - [भा. ४८० ]
१२३
सहसा तत् पात्रं त्यजेत्, तच्च कण्टकवृत्यादिमध्ये पतितमिति कृत्वा तद्दाहप्रसङ्गतो 'ग्रामादीनां ' ग्रामस्य नगरस्य पाटकस्य वा प्रदीपनं भवेत्, ततो महती अग्निकायस्य विराधना । यत्राग्निस्तत्र वायुरिति वायुविराधना । वनस्पतिविराधनामाह-"रुट्टे" त्यादि । कयाचिदविरत्या 'रोट्टः' लोट्टो दत्तः, सोऽम्लावयवसंस्पर्शतः प्राणविपत्तिमाप्नोति । तथा भृगुर्नाम श्लक्ष्णा राजिस्तासु पनकः सम्मूर्च्छति, सोऽन्न-पानग्रहणतो विध्वंसमापद्यते । एषा 'तरौ' वनस्पतिकाये विराधना । भृगुषु पनके सम्मूर्च्छिते कुन्थ्वादयोऽपि सम्मूर्च्छन्ति, तेऽवयवानामल्मभावेनान्न-पानग्रहणतो वा विराध्यन्ते । एषा 'षष्ठे' त्रसकाये विराधना । एवं षण्णामपि कायानां पात्रस्यालेपने विराधना ॥ यदप्युक्तम् "लेपैषणा भगवद्भिर्नोक्ता" इति तत्र प्रतिविधानमाह
[ भा. ४८१] पायग्गहणम्मि उ देसियम्मि लेवेसणा वि खलु वृत्ता । तम्हा उ आणणा लिंपणा य लेवस्स जयणाए ।
वृ-पात्रग्रहणे देशिते खलु लेपैषणाऽप्युक्ता द्रष्टव्या, लेपमन्तरेणावश्यं षडजीवनिकायविराधनात्, यथोक्तमनन्तरम् । तस्माज्जिनोपदिष्टत्वाल्लेपस्य यतनया आनयनम्, तेन च पात्रस्य लेपनं कर्त्तव्यम् ।। पर आह-यतनया लेपस्यानयनादि कर्त्तव्यं तत एवं क्रियताम्
[ भा. ४८२ ] हत्थोवधाय गंतून लिंपणा सोसणा य हत्यम्मि । सगारिए पभू घिणा य छक्कायजयणाए ॥
वृ- 'यस्माल्लेपस्यानयने भारेण हस्तोपघातः तस्मात् तत्र गत्वा पात्रस्य लेपनं कर्त्तव्यम्' इति नोदकवचनम् । इदमपि नोदकवचः - लिप्तस्य पात्रस्य हस्ते धरणतः शोषणा कर्त्तव्या । अत्रोभयत्रापि प्रत्युत्तरमग्रे दास्यते । तथा व्रजता प्रत्यासन्नं शय्यातरशकटमवलोक्य ‘सागारिकपिण्डएषः' इति कृत्वा न वर्जनीयम् किन्तु तत्रैव लेपग्रहणं कार्यम्, तथा तस्य शकटस्य यः प्रभुः प्रभउशनअधइष्टो वा तमनुज्ञापयेत्, अनुज्ञाप्य च कटुगन्धपरिज्ञानाय नाशामसंस्पर्शयन् तं पं जिघ्रेत्, तदनन्तरं लेपस्य ग्रहणं षट्काययतनया कर्त्तव्यमित्येष द्वारगाथासङ्क्षेपार्थं ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः “गंतूण लिंपणे "ति द्वारं व्याख्यानयति
[भा. ४८३ ] चोयगवयणं गंतूण लिंपणा आनने बहू दोसा ।
संपातिमादिघातो, अहिउस्सग्गो य गहियम्मि ||
वृ- नोदकवचनम्-तत्र शकटसमीपे गत्वा पात्रस्य लेपनं कर्त्तव्यम्, यतो लेपस्यानयेन बहवो दोषाः; तथाहि भारेण हस्तोपघातः पूर्ववत्, तथा सम्पातिमानाम् आदिशब्दादसम्पातिमानां च जीवानां तत्र पतितानामुपघातः, स च कदाचिदधिको लेपो गृहीतो भवेत् ततस्तस्मिन्नधिके गृहीते 'उत्सर्गः' परिषठापनिकादोषः सम्पद्यते । उक्तञ्च
भारे हत्थुवघातो, तत्थ य संपादिणो पडते य । पारिट्ठावणिदोसो, अहिगम्मि य हो आणीए ।।
एवमुक्ते आचार्य प्राह- नोदक ! तत्र पात्रे लिप्यमाने सविशेषतरा आत्मोपघातादयो दोषाः ।।
तथा चाह
[भा.४८४] एवं पि भाणभेदो, वियावडे अत्तणो उ उवघाओ । निस्संकियं च पायम्मि गिण्हणे इयरहा संका ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org