SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ बृहत्कल्प-छेदसूत्रम् -१ अन्यच्चौघनिर्युक्तौ प्रपञ्चेन लेपैषणाऽप्यभिहिता । तस्माद् दृष्टस्त्रैलोक्यदर्शिभिर्लेपः ॥ यच्च वदसि आत्मोपघातादयो दोषा इति तत्र प्रत्युत्तरमाह[भा. ४७६ ] दोसाणं परिहारो, चोयग जयणाए कीरए तेसिं । पाते उ अलिप्यंते, ते दोसा होंतऽनेगगुणा ॥ वृ- हे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादय उक्तास्तेषां परिहारो यतनया क्रियते, यतनया गच्छत आगच्छतो लेपग्रहणं च कुर्वतो न कश्चिदात्मोपघातादिको दोष इति भावः । पात्रे तु अलिप्यमाने ते आत्मोपघातादयो दोषाः 'अनेकगुणाः' अनेकप्रकारा भवन्ति ॥ कथम् ? इति चेद् अत आह [भा.४७७] उड्डादीणि उ विरसम्मि भुंजमाणस्स होति आयाए । दुग्गंधि भायणं ति य, गरहति लोगो पवयणम्मि ।। वृ- अलेपितं किल पात्रमतीव विरसं भवति, तस्मिन् भुञ्जानस्य विरसगन्धाघ्राणत ऊद्धर्वादीनि भवन्ति । ऊर्ध्वं वमनम्, आदिशब्दादरुचि-मान्द्यादिपरिग्रहः । एते आत्मनि दोषाः । तथा लोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्ट्वा 'गर्हयति' ईशा एवामी पापोपचिता इति । एष प्रवचनेउपघातः। यदप्युक्तम् “यक्षोल्लिखितलेपग्रहणे प्रवचनोपघातः” तदेतत् तावदतिसूक्ष्मम्, अन्येऽपि खलु महान्तः प्रवचनोपघाता अवश्यकर्त्तव्यतया यतनया परिह्रियन्ते किं पुनर्नैषः ? इति प्रतिपादयन्नाह [भा. ४७८ ] पवयणघाया अन्ने, वि अत्थि ते उ जयणाए कीरंति । आयमभोयणाई, लेवे तव मच्छरो को नु ॥ वृ- अन्येऽपि खलु 'आचमन भोजनादयः' काञ्जिकेनाचमनं कायिक्या आचमनमनाचमनं वा पात्रे भोजनं मण्डल्यां भोजनमित्येवमादयः 'प्रवचनघाताः ' प्रवचनोपघाताः सन्ति परं तेऽप्यवश्यकर्त्तव्यतया 'यतनया' सागारिकरक्षणादिरूपया क्रियन्ते । एवमवश्यग्रहीतव्ये लेपे यतनया तत्कालध्ष्टदोषपरिहारादिलक्षणया गृह्यमाणे को नु तव मत्सरः ? नैवासौ युक्त इति ॥ सम्प्रत्यन्यानपि पात्रालेपे दोषानाह [भा. ४७९] खंडम्मि मग्गियम्मी, लोणे दिन्नम्मि अवयवविनासो । अणुकंपादी पाणम्मि होति उदगस्स उ विनासो ॥ वृ- अलेपिते पात्रे कस्मिंश्चित् प्रयोजने समापतिते खण्डं याचितम्, तया चाऽविरत्या खण्डमिति भ्रान्त्याऽनाभोगेन सैन्धवादि लवणं दत्तम्, तस्मिंश्चालेपिते भाजने केचिदवयवा अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीकायस्य विनाशः । तथा पानके याचिते कयाचिदविरत्या एते उदकस्य स्वादं न जानन्तीत्यनुकम्पया आदिशब्दादनाभोगेन वा उदकं दीयते तत एवमुदकस्याम्लावयवसंस्पर्शतो विनाशः ॥ [ भा. ४८० ] पूयलियलग्ग अगणी, पलीवणं गाममादिणं होज्जा । ट्टपणा तरुम्मिं, भिगु-कुंथादी य छट्ठम्मि ॥ वृ- कयाचिदविरत्याऽनाभोगतः साङ्गारा पूपलिका दत्ता भवेत् तत्राम्लावयवसंस्पर्शतस्तस्य विध्वंसः; यद्वा स पूपलिकालग्नोऽग्निर्दहेत्, सच साधुर्न चेतयते ततः प्रदीप्ते पात्रे परितापलगनतः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy