SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१ वृ- 'एवमपि' तत्र गत्वा पात्रलेपनेऽपि ऊर्द्धस्थितो लेपं गृहीत्वा भाजने प्रक्षिपति, तत्र व्यापृतस्य सतः कदाचिद् हस्ताद् भाजनं पतेत्, तत एवं व्यापृते भाजनभेदः । तथा कथमपि शकटस्य पतनत आत्मनश्चोपघातः । किञ्च पात्रे लेपस्य ग्रहणे गृहीत्वा च तत्रैव पात्रस्य लेपने क्रियमाणे तेषां साक्षात् पश्यतामेवं निशङ्कितं भवति, यथा- एतेनाशुचिना लेपेन भोजनपात्रममी लिम्पन्ति ततो महान् प्रवचनोपघातः । 'इतरथा' तत्र पात्रालेपने रावे च लेपस्य ग्रहणे शङ्कोपजायतेकिं पात्रस्य लेपनाय उत दुःखयतः पादस्य पिण्डीबन्धनाय लेपमाददते ? ततो न प्रवचनोपघातः ॥ यदप्युक्तं "भारेण हस्तोपघातः" इति तत्रापि प्रत्युत्तरमाह [भा. ४८५ ] जइ वा हत्थुवघाओ, आणिजंतम्मि होइ लेवम्मि । पडिलेहणादि चेट्ठा, तम्हा उ न काइ कायव्वा ॥ वृ- यदि लेपे आनीयमाने भारेण हस्तोपघात इति नानयनं क्रियते तर्हि न कदाचिदपि प्रतिलेखनादिका क्रिया कर्त्तव्या, तत्रापि यथायोगं हस्त-पादादेरुपघातसम्भवात् । तस्माद्यथा प्रतिलेखनादिका क्रियाऽवश्यं कर्त्तव्या तत्करणे गुणसम्भवाद् एवं लेपानयनमपि ॥ तदेवं 'हत्थोवघाय गंतूण लिंपणा” इति व्याख्यातम् । अधुना "सोसणा य हत्थम्मि" इति व्याख्यानयति[भा. ४८६] जति नेवं तो पुनरवि, आनेउं लिंपिऊण हत्थम्मि । अच्छति धारेमाणो, सद्दवनिक्खेवपरिहारी ॥ वृ- यदि नाम तत्र गत्वा पात्रं लेपनीयमिति नैवमिष्यते अनन्तरोदितानेकदोषप्रसङ्गात् ततः पुनरपि किञ्चिद् वक्तव्यम्-लेपमानीय पात्रं लिप्तवा 'सद्रवनिक्षेपपरिहारी' सद्रवनिक्षेपपरिहारमिच्छन् हस्ते पात्रं धारयन् तावत् तिष्ठति यावल्लेपस्य शोषो भवति एवं क्रियताम् ॥ अत्राऽऽचार्य प्राह १२४ [भा. ४८७] एवं पि हु उवघातो, आयाए संजमे पवयणे य । मुच्छादी पवडते, तम्हा उ न सोसए हत्थे । वृ- 'एवमपि' हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि 'हुः' निश्चितमुपघातः आत्मनः संयमस्य प्रवचनस्य च । तत्राऽऽत्मोपघातो मूर्च्छया आदिशब्दात् पात्रभारेण च प्रतिपतति वेदितव्यः । संयमोपघातः षट्कायानामुपरि पतनात् । प्रवचनोपघातः पतन्तं दृष्ट्वा लोको ब्रूयात् 'दुर्द्दष्टधर्माणोऽमी' इति । उक्तञ्च कायाणमुवरि पडणे, आयाए संजमे पवयणे य । उहेण व भारेण व, मुच्छा पवडंति आयाए । कायोवरि पवडते, अह होही संजमे विराधनया । पवयणे अदिट्ठधम्मा, पडंत दङ्कं वए लोगो ॥ यस्मादेते दोषास्तस्मान्न हस्ते पात्रं शोषयितव्यम् । अत्र सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्वा चतुर्गुरुकं प्रायश्चित्तम्। एवमाचार्यो नोदकं प्रतिहत्य साम्प्रतमात्मना यतनासामाचारीमाह[भा. ४८८ ] दुविहाय होंति पाता, जुण्णा य नवा यजे उ लिप्पंति । दाऊणं, लिंपति पुच्छा य इयरेसिं ॥ वृ- यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथा जीर्णानि नवानि च । तत्र For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy