SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पीठिका- [भा.४५४] ११५ सुप्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोलघु कालगुरु, सुप्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघुद्वाभ्यां लघुकम्। एवं 'त्रिके त्रिषुस्थानेषु पञ्चकं कालेन तपसा चोक्तप्रकारेण विशेषितम्। 'चरमे' सुप्रत्युपेक्षितं सुप्रमार्जितमित्येवं रूपे भङ्गे 'शुद्धः' न प्रायश्चित्तभाक् ॥ [भा.४५५] खुड्डो धावण झुसिरे, तिक्खुत्तो अपडिलेहणा लहुगो। घर-वावि-वच्च-गोवय-ठिय-मल्लगछड्डुणे लहुगा ।। वृ- इयमपि गाथाऽन्याचार्यपरिपाटिसूचिका ततो न पुनरुक्तता नाऽपि विरोधः, मतान्तरत्वात् । 'क्षुल्लकं' स्तोकं यदि 'धावनं प्रलोठनमित्यर्थः तत्र, तथा झुषिरे स्थण्डिले, तथा त्रिकृत्वोऽप्रत्युपेक्षणायांप्रत्येकंप्रायश्चित्तं लघुकोमासः। तथायदिगृहेसंज्ञांव्युत्सृजति, वाप्याम्, वक़गृहे वर्चस उपरिवा, गोष्पदे वा, ऊर्द्धस्थितो वा, तथा मल्लके व्युत्सृज्य यदि परिष्ठापयति तदा सर्वेष्वेतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो लघवः ।। गतमपायद्वारम् । इदानीं वर्जनाद्वारमाह[भा.४५६]दिसि-पवन-गाम-सूरिय-छायाए पमजिऊण तिक्खुत्तो। जस्सुग्गहो त्ति काऊण वोसिरे आयमे वा वि ।। वृ-उत्तरदिक्पूर्वदिक्च लोके पूज्या, ततस्तस्याः पृष्ठप्रदाने लोकमध्येऽवर्णवादो भवति, वानमन्तरंवा किञ्चिन्मिथ्याष्टि कुप्येत्, तथा च सतिजीवितव्यस्य विनाशः; तस्माद् दिवा रात्री च पृष्ठं पूर्वस्याम्, उत्तरस्यां तु दिवा, दक्षिणस्यां दिशि रात्रौ निशाचराः सञ्चरन्ति ततस्तस्यां पृष्ठं रात्रौ वर्जयेत् । उक्तश्च उभे मूत्र-पुरीषेतु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तथा चाऽऽयुर्न हीयते ।। तथा यतः पवनस्ततः पृष्ठं न कुर्यात्, मा लोको ब्रूयात्-अर्धन्त्येतदेत इति नाशिकायां चाऑसिमा भूवन् । तथा ग्रामस्य सूर्यस्य चपृष्ठं न दातव्यम, लोकेऽवर्णवादसम्मवात्। तथाहिसूर्यस्य ग्रामस्य वा पृष्ठदाने लोको ब्रूते-न किञ्चिज्ञानन्त्येतेयल्लोकोद्दयोतकरस्यापिसूर्यस्य यस्मिन् ग्रामेस्थीयतेतस्यापिचपृष्ठंददतीति।तथा संसक्तग्रहणिश्छायायांव्युत्सृजेयेन द्वीन्द्रियविनाशो न भवति । तथा 'त्रिकृत्वः' त्रीन् वारान् प्रमाM उपलक्षणमेतत् प्रत्युपेक्ष्य च व्युत्सृजेत् । तत्राप्रत्युपेक्षणेऽप्रमार्जने दुष्प्रत्युपेक्षणे दुष्प्रमार्जने च प्रायश्चित्तं प्रागुक्तम् । तथा “यस्यावग्रहः सोऽनुजानीयात्" इति अनुज्ञाय व्युत्सृजे आचमेद्वा । एष गाथार्थः । साम्प्रतमेनामेव विवरीषुराह[भा.४५७] उत्तर पुव्वा पुजा, जम्माए निसीयरा अभिवडंति । घाणारसा य पवने, सरिय गामे अवन्नो उ॥ वृ-उत्तरा पूर्वा च लोके पूज्या, ततो दिवा रात्रौ च पूर्वस्यामुत्तरस्यां वा पृष्ठं न दद्यात् । तथा याम्या-दक्षिणा तस्यां रात्रौ 'निशाचराः' देवाः 'अभिपतन्ति' समागच्छन्ति, ततस्तस्यां रात्रौपृष्ठंनदद्यात्।तथायतः पवनस्ततः पृष्ठकरणेऽशुभगन्धध्राणिनाशिकायांचाास्युपजायन्ते, तस्मात्पवनस्यापिपृष्ठंनकर्तव्यम्।सूर्यस्यग्रामस्य च पृष्ठकरणेअवर्णोलोकमध्ये यथाऽभिहितः प्राक्, ततस्तयोरपि न दातव्यं पृष्ठमिति ।। “छायाए" इतिव्याखयानार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy