________________
११४
बृहत्कल्प - छेदसूत्रम् - १
तत् प्रक्षालयेयुः ततः संयमविराधना । आत्मविराधना पिट्टनादिभावात् । भावासन्नं नाम तावत् तिष्ठति यावत् संज्ञा मनाग् नागच्छति, ततोऽनघिसहः स्थण्डिलं गन्तुमशक्नुवन् अस्थण्डिले भवनादीनां वा प्रत्यासन्ने व्युत्सृजेत्, तत्र चाऽऽत्मविराधना संयमविराधना च प्राग्वत् । अथास्थण्डिलमिति कृत्वा सागारिको वा तिष्ठतीति संज्ञां धारयत्यात्मविराधना, मरणस्य ग्लानत्वस्य वाऽवश्यम्भावात्; अनधिसहेन च सता तेन लोकपुरतोऽस्थाने संज्ञाव्युत्सर्गे पुनर्जङ्घादिलेपने वा प्रवचनोपघातः । सबिले त्रसप्राण - बीजोपेते दोषानाह
[ भा. ४५१] होंति बिले दो दोसा, तसेसु बीएस वा वि ते चेव । संजोगतोय दोसा, मूलगमा होंति सविसेसा ॥
वृ-बिले संज्ञां व्युत्सृजतो द्वौ दोषी, तद्यथा- आत्मविराधना संयमविराधना च । तत्र यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन तद्गता जीवा बाध्यन्ते तदा संयमविराधना, सर्पादिभक्षणे आत्मविराधना । त्रसेषु बीजेषु च ' तावेव' द्वौ दोषी संयमा-ऽऽत्मविरादनालक्षणौ । तत्र त्रसेषु बीजेषु च प्राणव्यरोपणात् संयमविराधना सुप्रतीता । त्रसेष्वात्मविराधना तेभ्य उपद्रवसम्भवात्, बीजेष्वात्मविराधना बीजकोशावयवानामतितीक्ष्णानां पदेषु लग्नतः (लगनतः) पादप्रलोटनतः पतनतो वा । तदेवमेकैकस्मिन् वर्जनीये स्थण्डिले दोषा उक्ताः । अस्माच्च 'मूलगमाद्' एककसंयोगरूपाद् द्विक-त्रिकादिपदानां संयोगतः 'सविशेषाः ' बहुबहुतरका दोषाः भवन्ति ज्ञातव्याःद्विकसंयोगे द्विगुणाः त्रिकसंयोगे त्रिगुणा यावद् दशसंयोगे दशगुणा इति ॥ सम्प्रति प्रागुक्तमपि प्रायश्चित्तमन्याचार्यपरिपाट्या मनाग् विशेषप्रदर्शनार्थतया च पुनराह
[भा. ४५२] पंथम्मिय आलोए, झुसिरग्मि तसेसु चेव चउलहुगा । पुरिसावाए य तहा, तिरियावाए य ते चेव ॥
वृ-पथ आसने पुरुषाणामालोके झुषिरे त्रससङ्कुले च संज्ञां व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः । तथा सर्वमनुष्यपुरुषापाते सर्वतिर्यक्पुरुषापाते च प्रत्येकं 'त एव' चत्वारो लघवः । सर्वग्रहणं मनुष्येषु कौटुम्बिकादिभेदपरिग्रहार्थम् ॥ तिर्यक्षूत्कृष्टादिभेदसङ्ग्रहार्थमाह
[ भा. ४५३ ] इत्थि - नपुंसावाए, भावासत्रे बिले य चउगुरुगा । पनगं लहुयं गुरुगं, बीए सेसेसु मासलहुं ॥
वृ- सर्वासां प्राकृतादिभेदभिन्नानां स्त्रीणामापाते सर्वनपुंसकापाते च तथा भावासने बिलसहिते च स्थण्डिले व्युत्सृजतः प्रत्येकं चत्वारो गुरुकाः । प्रत्येकबीजसङ्कुले स्थण्डिले लघूनि पञ्चरात्रिन्दिवानि, अनन्तबीजसङ्कले गुरुकाणि । 'शेषेषु' अशुद्धेषु स्थण्डिलेषु मासलघु । यच्चान्यदापद्यते तदपि सर्वमाप्नोति । यत्रासामाचारीकरणं तत्रापि मासलघु ॥
[भा. ४५४] अपमज्जणा अपडिलेहणा य दुपमज्जणा दुपडिलेहा । तिय मासिय तिय पनगं, लहु काल तवे चरिम सुद्धो ॥
कृ-संज्ञां व्युत्त्रष्टुकामो न प्रत्युपेक्षते न प्रमार्जयति प्रत्युपेक्षते तपोगुरु काललघु, न प्रत्युपेक्षते प्रमार्जयति मासलघु कालगुरु तपोलघु, न प्रमार्जयति प्रत्युपेक्षते मासलघु द्वाभ्यां लघु । एवं 'त्रिके' त्रिषु स्थानेषु मासिकं लघु कालेन तपसा चोक्तप्रकारेण विशेषितम् । अथ प्रत्युपेक्षते प्रमार्जयति तत्र दुष्प्रत्युपेक्षिते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु तपोगुरु काललघु, दुष्प्रत्युपेक्षिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org