________________
पीठिका- [भा. ४४६]
११३ __ आराम वच्च अगनी, घायादऽसुती य अन्नत्थ ॥ वृ-इह पूर्वार्द्धपदानां पश्चार्द्धपदानां च यथाक्रम योजना । सा चैवम्- 'औपघातिकम्' उपघातप्रयोजनकंस्थण्डिलं त्रिविधं ज्ञातव्यम्, तद्यथा-आत्मोपघातिप्रवचनोपघाति संयमोपघाति च। तत्राऽऽत्मोपघाति आरामः, तत्र हि संज्ञां व्युत्सृजतो 'घातादि' पिट्टनादि । प्रवचनोपघाति 'वर्च' वक़गृहम्, तद्धि जुगुप्तिसमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्गे ईद्दशा एते इति प्रवचनोपघातः । संयमोपघाति ‘अग्नि' अग्निस्थानम्, तत्र हि संज्ञाव्युत्सर्गे तेऽग्न्यारम्भिणः 'अन्यत्र' अस्थण्डिलेऽग्निस्थानं कुर्वन्ति त्यजन्ति वा तां संज्ञामस्थण्डिले ॥
सम्प्रति विषमे स्थण्डिले दोषानाह[भा.४४७] विसम पलोट्टणि आया, इयरस्स पलोट्टणम्मिछक्काया।
झुसिरम्मि विच्छुगादी, उभयक्कमणे तसादीया॥ वृ-विषमेस्थण्डिले साधुः प्रलोटेत-पतेदिति भावः, तत्रचाऽऽत्मा विराध्येत। 'इतरस्य' पुरीषस्य प्रश्रवणस्य च प्रलोटने षट् काया विराध्यन्ते, तथाहि प्रतीतमेतत्-पुरीषं प्रश्रवणं वा प्रलोटत्षटकाया विराधयति, एषा संयमविराधना । झुषिरे दोषानाह-झुषिरे संज्ञादिव्युत्सृजतो वृश्चिकादिभिरात्मनोविराधना, आदिशब्दात्सदिपरिग्रहः । उभयं-संज्ञाप्रश्रवणतेनाऽऽक्रमणे 'त्रसादयः' त्रस-स्थावरप्राणा विराध्यन्ते, एषा संयमविराधना ।। अथ कीशं चिरकालकृतं स्थण्डिलम् ? अत आह[भा.४४८] जे जम्मि उउम्मि कया, पयावणादीहि थंडिला तेउ ।
होंति इयरे चिरकया, वासावुत्थे य बारसगं ।। वृ-यानि स्थण्डिलानि यस्मिन् ऋतौ प्रतापनादिभि कृतानि तानितस्मिन्नचिरकालकृतानि भवन्ति । यथा-हेमन्ते कृतानि हेमन्त एवाचिरकालकृतानि । 'इतराणि तु'ऋत्वन्तरव्यवहितानि चिरकालकृतानि, अस्थण्डिलानि तानीति भावः। यत्र पुनरेकवर्षारात्रंसगोधनोग्राम उषितस्तत्र 'द्वादशकं' द्वादश संवत्सराणि स्थण्डिलम्, ततः परमस्थण्डिलं भवति ॥सम्प्रति विस्तीर्णमाह[भा.४४९] हत्थायामंचउरस, जहन्न उक्कोस जोयणबिछक्कं ।
चउरंगुलप्पमाणं, जहण्णयं दूरमोगाढं । वृ-जघन्यं विस्तीर्णं चतुरस्रं चतसृष्वपि दिक्षु हस्तायामम्, उत्कृष्टं 'योजनद्विषटकं' द्वादश योजनानि, तच्च चक्रवर्तिस्कन्धावारनिवेशे प्रतिपत्तव्यम् । दूरावगाढमाह-यत्राधस्तात् 'चतुरङ्गुलप्रमाणमचित्तं' चत्वार्यकुलान्यचित्ता भूमि तद् जघन्यं दूरमवगाढम्, अर्थात् पञ्चाङ्गुलप्रभृतिकमचित्तं यस्याधस्तात् तद् उत्कृष्टं दूरमवगाढम् ।। साम्प्रतमासनमाह[भा.४५०] दव्वासनं भवणाइयाण तहियं तु संजमा-ऽऽयाए।
आया-पवयण-संजमदोसा पुण भावमासन्ने ॥ कृ-आसन्नं द्विविधम्-द्रव्यतोभावतश्च। तत्रद्रव्यासन्नं भवनादीनांनिकटम, हस्तिपदप्रमाणः स्कन्धस्तस्य समन्ततो हस्तोवर्जयितव्यः । तत्र यदि द्रव्यासन्ने व्युत्सृजति ततः संयमे आत्मनिच विराधना । तत्रयद्गृहादीनामासन्नं तत्स्थण्डिलंपरित्यज्यान्यत्रस्थण्डिलं कुर्युः,अथवा पानीयेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org