________________
११२
बृहत्कल्प-छेदसूत्रम् -१
तदनन्तरं सण्डासकं सम्प्रमार्ण्य प्रेक्षितेषु प्रमार्जितेषु च भूप्रदेशेषु स्थण्डिले पुरीषं 'निसृजेत्' व्युत्सृजेत् । कथम् ? इत्याह- 'यतनया' “दिसि पवन गाम सूरिए" त्यादिवक्ष्यमाणलक्षणया । तत् पुनरनापातासंलोकं स्थण्डिलमेभिर्वक्ष्यमाणैर्दशभि स्थानैर्विशुद्धं ज्ञातव्यम् ॥ तान्येवाह[भा. ४४३] अनावायमसंलोए, परस्स अनुवघातिए । समे अज्झसिरे यावि, अचिरकालकयम्मिय ॥ विच्छिन्ने दूरमोगाढेऽनासन्ने बिलवज्जिए । तसपाण - बीयरहिए, उच्चारादीणि वोसिरे ।
[भा. ४४४]
वृ- अनापातमसंलोकं १ परस्यानौपघातिकं २ समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्णं ६ दूरमवगाढं ६ अनासन्नं ८ बिलवर्जितं ९ त्रसप्राण - बीजरहितं १० यत् स्थण्डिलं तत्र ‘उच्चारादीनि’ उच्चार-प्रश्रवणप्रभृतीनि व्युत्सृजेत् ॥
एष एककः संयोगो दर्शितः । सम्प्रति द्विकादिसंयोगानुपदर्शयति[भा.४४५] एग-दु-ती-चउ-पंचग-छग-सत्तग-अट्ठ-नवग- दसगेहिं । संजोगा कायव्वा, भंगसहस्सं चउव्वीसं ॥
वृ-अमीषामनन्तरोदितानां दशानां पदानामेक-द्वि-त्रि- चतुः पञ्च षट्- सप्ताऽष्ट-नव- दशकैः संयोगाः कर्त्तव्याः । तेषु च भङ्गाः स्वसङ्ख्यया 'चतुर्विंशं' चतुर्विंशत्यधिकं सहस्रम् ।
अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ? उच्यते-इह भङ्गानामानयनाय करणमिदम्दशादयोऽङ्का एकैकेन हीनास्तावत् स्थाप्यन्ते यावत् पर्यन्त एकः । ततस्ते यथाक्रममेमी राशिभिर्गुणयितव्याः, तद्यथा-दशक एककेन, नवकः पञ्चभि, अष्टकः पञ्चदशभिः, सप्तकस्त्रींशता, षट्को द्वाचत्वारिंशता, पञ्चकोऽपि द्वाचत्वारिंशता चतुष्कस्त्रशता, त्रिकः पञ्चदशभि, द्विकः पञ्चकेन, एकक एककेन । अमीषां चामीभिर्गुणाकारैर्गुणने जाता एककादिसंयोगेष्वियं भङ्गसङ्ख्या, तद्यथा-एककसंयोगे दश, द्विकसंयोगे पञ्चचत्वारिंशत्, त्रिकसंयोगे विंशं शतम्, चतुष्कसंयोगे द्वे शते दशोत्तरे, पञ्चकसंयोगे द्वे शते द्विपञ्चाशदधिके, षट्कसंयोगे द्वे शते दशोत्तरे, सप्तकसंयोगे विंशं शतं, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश दशकसंयोगे एकः; एकं च वसत्यादषु विविक्ते प्रदेशे स्थण्डिलमिति । सर्वभङ्गसङ्ख्या एकत्र मीलयित्वा रूपाधिका क्रियते ततश्चतुर्विंशं भङ्गसहस्रं भवति ।
भंगानयने करणं, दसगातो ओसरंतो जावेक्को । एए उ गुणेयव्वा, इमेहिं रासीहिं जहकमसो ॥ एक्कग पंचग पन्नर, तीसा बायाल पंच जा ठाणा । परतो बायालीसा. पडिलोममवेहि जावेक्को | एक्कगसंजोगादी, गुणिया लद्धा हवंति एमेते मिलिया रूवाहिकया, भंगसहस्सं चउव्वीसं ॥ सम्प्रत्येतानि दश शुद्धानि पदानि व्याख्यातव्यानि । ये च यत्र दोषास्ते तत्र कथनीयाः । तत्राऽऽपातवत् संलोकवच्च पूर्वं व्याख्यातम् । इदानीं परस्योपघातिकमाह
[भा. ४४६ ] आया पवयण संजम, तिविहं उवघातियं मुणेयत्वं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org