________________
११६
बृहत्कल्प-छेदसूत्रम् -१
[ भा. ४५८] संसत्तग्गहणी पुण, छायाए निग्गयाए वोसिरइ । छायाऽसति उण्हम्मि वि, वोसिरिय मुहुत्तगं चिट्ठे ।
वृ- संसक्ता द्वीन्द्रियैर्ग्रहणि-कुक्षिर्यस्यासौ संसक्तग्रहणि, स द्वीन्द्रियरक्षणार्थं छायायां वृक्षादेर्निर्गतायां व्युत्सृजति । अथ च्छायाऽद्यापि न निर्गच्छति मध्याह्ने एव संज्ञाप्रवृत्तेः, ततश्छायायाः असति -अभावे उष्णेऽपि स्वशरीरच्छायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च 'मुहूर्तकम्' अल्पं मुहूर्त तथैव तिष्ठति, येनैतावता कालेन स्वयोगतः परिणमन्ति । अन्यथोष्णेन महती परितापना स्यात् ।। अथ व्युत्सृजन् स्वोपकरणं कथं धरति ? इत्यत आहउवगरणं वामगऊरुगम्मि मत्तो य दाहिणे हत्थे ।
[भा. ४५९]
तत्थऽण्णत्थ व पुंसे, तिहि आयमणं अदूरम्मि ।।
वृ- ‘उपकरणं' दण्डकं रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं दक्षिणहस्ते क्रियते, डगलकानि च वामहस्तेन धरणीयानि । ततः संज्ञां व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं 'पुंसयति' रूक्षयति । पुंसयित्वा त्रिभि नावापूरकैः चुलुकैरित्यर्थः 'आचमनं' निर्लेपनं करोति । उक्तञ्च - तिहिं नावाए पूरएहिं आयमइ निल्लेवेति वा । नावापूरओ नाम पसती इति ।
तदपि चाचमनमदूरे करोति । यदि पुनदूर आचमति तत उड्डाहः । कश्चिद् दृष्ट्वा चिन्तयेत्अनिर्लेप्य पुते गत एष इति । सम्प्रत्यालोके प्रायश्चित्तविधिमाह
[भा.४६०] आलोगं पि यतिविहं, पुरिसि-त्थि-नपुंसकं च बोधव्वं ।
लहुगा पुरिसालोए, गुरुगा य नपुंस- इत्थीसु ॥
व- आलोकमपि च 'त्रिविधं त्रिप्रकारम्, तद्यथा- पुरुषालोकं स्त्र्यालोकं नपुंसकालोकम् । गाथायां पदैकदेशे पदसमुदायोपलक्षणानि । तत्र पुरुषालोके प्रायश्चित्तं चत्वारो लघुकाः, स्त्र्यालोके नपुंसकालोके च चत्वारो गुरुकाः । तदेवमचित्तं स्थण्डिलमचित्तेन पथा भणितम् । अथ सचित्तेन मिश्रेण वा यदा तद् गच्छति तदेदं प्रायश्चित्तम्
[भा.४६१] छक्का चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परियावण, लहु गुरुगऽतिवायणे मूलं ।।
वृ- ‘षट्कायाः’ पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुर्षु' पृथिव्यप्तेजोवायुरूपेषु सङ्घट्टनादिषु लघुकाः प्रायश्चित्तम्, 'परित्ते' प्रत्येकवनस्पतिकायेऽपि च लघुकाः, “साहारे” अनन्तवनस्पतिकायिके सङ्घट्टनादिषु गुरुकाः, तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् 'अतिपातने' विनाशे मूलम् । इयमत्र भावना- पृथिवीकायं सङ्घट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति जीविताद् व्यपरोपयतीत्यर्थः चतुर्लघु । एवमकाये तेजस्काये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम् । उक्तञ्च
छक्कायादिमचउसू, तह य परित्तम्मि होति वणकाए ।
लहु-गुरुमासो चउलहु, घट्टण परिताव उद्दवणे ॥
एतत् प्रायश्चित्तमेकैकस्मिन् दिवसे सङ्घट्टनादिकरणे । यदि पुनर्द्वी दिवसौ पृथिव्यादि सङ्घट्टयति तदा मासगुरु, परितापयति चतुर्लघु, जीविताद् व्यपरोपयति चतुर्गुरु । त्रीन् दिवसान् निरन्तरं चतुरो दिवसान् सङ्घट्टने चतुर्गुरु, परितापने षड्लघु, अपद्रावणे षड्गुरु । पञ्च दिवसान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org