________________
१०४
बृहत्कल्प-छेदसूत्रम् - १
सामायिकसूत्रं दीयते, ततः- “सामायिकं मे दत्तम् इच्छामोऽनुशिष्टिम्" इति सूरयो ब्रुवतेनिस्तारकपारगो भव, क्षमाश्रमणानां गुणैर्वर्धस्व । एषा मुण्डापना । “सिक्खावण”त्ति तदनन्तरं द्विविधामपि शिक्षां ग्राह्यते, तद्यथा - ग्रहणशिक्षामासेवनाशिक्षां च । ग्रहणशिक्षा नाम पाठः, आसेवनाशिक्षा समाचारीशिक्षणम् । यदा द्विविधामपि शिक्षां ग्राहितो भवति तदा स उपस्थाप्यते प्रशस्तेषु द्रव्य-क्षेत्रादिषु । द्रव्यतः शालिकरणे इक्षुकरणे चैत्यवृक्षे वा । क्षेत्रतः पद्मसरसि सानुनादे चैत्यगृहे वा । कालतश्चतुर्थ्यष्टम्यादिवर्जितासु तिथिषु । भावतोऽनुकूले नत्रे, यदि तस्य जन्मनक्षत्रं न ज्ञायते तदाऽऽचार्यस्यानुकूले नक्षत्रे सुन्दरे मुहूर्त्ते यथाजातेन लिङ्गेन; तद्यथा - रजोहरणेन निषद्याद्वयोपेतेन मुखपोतिकया चोलपट्टेन च वामपार्श्वे स्थापयित्वा एकैकं महाव्रतं त्रीन् वारान् उच्चार्यते यावद् रात्रिभोजनम् ।
अथ द्वौ बहवो वा भवेयुस्ततो यथाक्योवृद्धम्; अथ ते क्षत्रिया राजपुत्राः तत्र यः स्वत एवासन्नतर आचार्यस्य स रत्नाधिकः क्रियते, इतरो लघुः; अथ द्वावप्युभयतः पार्श्वयोः समौ व्यवस्थितौ तदा तौ द्वावपि समरत्नाधिकौ व्रतेषूच्चारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्यते (पात्येते) भाण्यते (भाण्येते) च महाव्रतानि ममारोपितानि, इच्छामोऽनुशिष्टिम्, शेषाणामपि साधूनां निवेदयामि । गुरुर्भणति-निवेदय । इदं च भणति - निस्तारकपारगो भव, क्षमाश्रणानां च गुणैर्वर्धस्व । एवमुपस्थिते द्विविधः सङ्ग्रहः साधोः, यथा अहं तव आचार्य, अमुकस्ते उपाध्यायः । साध्व्यास्त्रीविधः सङ्ग्रहः, त्र तृतीया अमुका ते प्रवर्त्तिनी ।
एवमुपस्थाप्य केषाञ्चित् पञ्चकल्याणकं केषाञ्चिदभक्तार्थं केषाञ्चिदाचाम्लं केषाञ्चिन्निर्विकृतिकमपरेषां न किञ्चित्, किंबहुना ? यद् यस्य तपः कर्म आवलिकागतं स तद् दत्त्वा तेन सहैकत्र मण्डल्यां सम्भुङ्के, संवसनं च करोति । शैक्षकपरिपालना चेयम्-यावन्नोपस्थाप्यते तावन्न भिक्षां हिण्डापयितव्यः ॥ कथं पुनरुपस्थापनीयः ? इत्यत आह
[भा.४१४] पढिए य कहिय अहिगय, परिहर उवठावणाए सो कप्पो । छक्कं तीहि विसुद्धं, परिहर नवगेण भेदेन ॥
वृ- सूत्रं प्रथमतः पाठयित्वा तदनन्तरमर्थं कथयित्वा ततः ‘अधिगतोऽनेनार्थ, सम्यक् श्रद्धानविषयीकृतश्च' इति परीक्ष्य यदा 'षट्कं' षडजीवनिकायान् 'त्रिभि' मनो-वाक्-कायौर्विशुद्धं भावतो न परानुवृत्या परिहरति । कथं परिहरति ? इत्यत आह-नवकभेदेन षटकम्, मनसा स्वयं परिहरति अन्यैः परिहारयति परिहरन्तमन्यं समनुजानाति, एवं वाचा कायेन च प्रत्येकं त्रयस्त्रयो भेदा द्रष्टव्याः ।। एष उपस्थापनायाः कल्पः । सम्प्रति विचारकल्पमाह -
[भा. ४१५] अप्पत्ते अकहित्ता, अनहिगयऽ परिच्छनम्मि चउगुरुगा । दोह गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा ।।
वृ- सूत्रे सप्तसप्तकलक्षणे ओधनिर्युक्तिलक्षणे वा अप्राप्ते यदि विचारभूमावेकाकिनं प्रस्थापयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः । ते च द्वाभ्यां गुरुकाः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च । अथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वा कथनेऽपि 'अधिगतस्तदर्थो न वा ?" इत्यपरिज्ञाय अधिगतमपि 'सम्यक् श्रद्दधाति न वा ?' इत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकमकथनेऽनधिगमेऽपरीक्षणे च तस्य प्रायश्चित्तं चत्वारो लघुकाः । ते च विचाराधिकारात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org