________________
पीठिका - [भा. ४१५]
सर्वत्रापि च द्वाभ्यां लघवः, तद्यथा - तपोलघुकाः काललघुकाश्च । न केवलमेतत् प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषाः । संयमविराधना त्वेवम् - सोऽप्राप्तश्रुतादित्वादेकाकी प्रस्थापितः षट्सु जीवनिकायेषु संज्ञां व्युत्सृजेत्, उड्डाहं चाऽस्थण्डिले व्युत्सृजन् कुर्यात् । विरुद्धदिगादिषु व्युत्सर्जनेनाऽऽयुषोऽपगमत आत्मविराधना ।। तस्माद्
[भा. ४१६] पढिते य कहिय अहिगय, परिहरति वियारकप्पितो सो उ । तिविहं तीहि विसुद्धं, परिहर नवगेन भेदेनं ॥
वृ. यदा सूत्रं सप्तसप्तकादिरूपं पठितं भवति तस्य चार्थ कथितोऽधिगतोऽदिगम्य च सम्यक् श्रद्धानविषयीकृतस्ततो निशीथोक्तेन प्रकारेण परीक्ष्यमाणः 'त्रिविधं' सचित्तमचित्तं मिश्रं च स्थण्डिलं परिहारविषयेण नवकभेदेन 'त्रिभि' मनो- वाक्- कायैर्विशुद्धं परिहरति, तद्यथासचित्तं स्थण्डिलं तद् मनसा स्वयं न गच्छति नाप्यन्यान् गमयति न चाप्यन्यं गच्छन्तमनुजानाति । एवंवाचा ३ कायेनापि ३ । एवं मिश्रमचित्तं चापातसंलोकादिदोषदुष्टम् । सभवति विचारकल्पिकः।। विचारभूमौ गतेन स्थण्डिले उपवेष्टव्यम्, अतः स्थण्डिले वक्तव्ये येऽर्थाधिकारास्तानभिधितसुर्द्वारगाथामाह
[ भा. ४१७] भेया सोहि अवाया, वज्रणया खलु तहा अणुन्ना य । कारणविहीय जयणा, थंडिल्ले होंति अहिगारा ॥
१०५
वृ- प्रथमतो भेदाः स्थण्डिलस्य वक्तव्याः । तदनन्तरं स्थण्डिले व्युत्सृजतः ‘शोधि’ प्रायश्चित्तम्। ततोऽपायाः। तदनन्तरं वर्जनद्वारम् । ततः परमनुज्ञा । ततः कारणविधि । तदनन्तरं यतना । एते वक्ष्यमाणाः स्थण्डिले अधिकाराः ।। तत्र प्रथमतो भेदद्वारप्रतिपादनार्थमाह[ भा. ४१८] अच्चित्तेण अचित्तं, मीसेण अचित्त छक्कमीसेणं । सच्चित्त छक्कएणं, अचित्त चउभंग एक्केक्के ॥
वृ- अचित्ते स्थण्डिले पन्थानमधिकृत्य त्रयो भेदाः अचित्तं स्थण्डिलमचित्तेन पथा गम्यते १; अचित्तं मिश्रेण पथा २, केन मिश्रेण ? इत्यत आह-षटकायमिश्रेण; तथा अचित्तं 'सचित्तेन पथा' स पन्थाः सचित्तः, कथम् ? इत्याह- 'षट्केन' षडभिर्जीवनिकायैः ३; एवमचित्ते स्थण्डिले त्रयो भेदाः । एवं मिश्रे ३ सचित्ते ३ च । एतेषां अचित्त-मिश्र सचित्तानामेकैकस्मिन् भङ्गे चतुर्भङ्गी ।।
तामेवोपदर्शयति
[भा. ४१९] अनवायमसंलोए, अनवाए चेव होति संलोए ।
आवायमसंलोए, आवाए चेवसंलोए ।।
वृ- अनापातमसंलोकमिति प्रथमो भङ्गः, अनापातं संलोकवदिति द्वितीयः, आपातवदसंलोकमिति तृतीयः, आपातवत् संलोकवदिति चतुर्थः । गाथायां मत्वर्थीयप्रत्ययस्य लोपः प्राकृतत्वात्, अम्रादित्वाद्वा अकारप्रत्ययः । अमीषां चतुर्णां भङ्गानां प्रथमो भङ्गोऽनुज्ञातः, शेषाः प्रतिक्रुष्टाः । निर्ग्रन्धीनां तृतीयोऽनुज्ञातः ।। चतुर्थं स्थण्डिलं व्याख्यानयति
[भा.४२०] तत्थाऽऽवायं दुविहं, सपक्ख-परपक्खतो उ नायव्वं ।
दुविहं होइ सपक्खे, संजय तह संजतीणं च ॥
वृ-‘तत्र' आपातवत्-संलोकवतोर्मध्ये 'आपातम्' आपातवद् द्विविधं ज्ञातव्यम्, तद्यथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International