________________
१०३
पीठिका - [भा. ४०९] प्रियधर्मा २ एकः प्रियधर्माऽपि दृढधर्माऽपि ३ एको न प्रियधर्मा नापि ढधर्मा ४ । अत्र चतुर्थभङ्गोऽवस्तु । शेषभङ्गत्रिके यत एकस्मादेकैकगुणयुक्तात् स्थानात् प्रथमभङ्गरूपाद् द्वितीयभङ्गरूपाद् वा येऽधिके स्थाने प्रियधर्मत्व-६ढधर्मत्वलक्षणे तयोर्युक्तः । स च नियमादवद्यभीरुभवति, अवयं-कर्मतस्माद्भीरु, तत आह-“अवजभीरू" सतदुभयकल्पिकः। अत्रौपम्यमार्यवत्रैः, सः बालभावे कर्णाभ्याहृतं सूत्रं कृतवान्, पश्चात् तस्योद्दिष्ठंसमुद्दिष्टमनुज्ञातम् अर्थश्च तदैव द्वितीयपौरुष्यां कथितः। एवमन्यस्यापि द्रष्टव्यम् । तथा चाह[भा.४१०] पुव्वभवे वि अहीयं, कण्णाहडगं व बालभावम्मि।
उत्तममेहाविस्स व, दिज्जति सुत्तं पि अत्थो वि।। वृ-यस्य पूर्वभवेऽधीतमागच्छति बालभावे वा कर्णाहृतं कृतं तस्य, उत्तममेघाविनो वा युगपत्सूत्रमप्यर्थोऽपि च दीयते । एष उभयकल्पिकः ।। साम्प्रतमुपस्थापनाकल्पिकमाह[भा.४११]अप्पत्ते अकहित्ता, अनहिगयऽपरिचछणे य चउगुरुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा॥ वृ-सूत्रेऽसमाप्ते उपस्थाप्यमाने उपस्थापयितुःप्रायश्चित्तंचत्वारो गुरुकाः कथम्भूताः? इत्याह-द्वाभ्यां गुरवः, तद्यथा-तपसाऽपि गुरुकाः कालेनापि गुरुकाः । अथ सूत्रं प्राप्तस्तथापि तस्यार्थमकथयित्वा यदि तमुपस्थापयति तदा तस्य चत्वारो लघुकाः, नवरं कालेनैकेन लघवः । अथ कथितोऽर्थः परं नाद्याप्यधिगतः अथवाऽधिगतः परमद्यापि न सम्यक् तं श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा उपस्थापयतश्चत्वारो लघुकाः, नवरमेकेन तपसा लघवः । अथाधिगतार्थमप्यपरीक्ष्योपस्थापयति तदा चत्वारो लघुकाः, तपसाऽपिकालेनापिच लघवः। न केवलमेतत्प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषाः। तथा सर्वत्रषण्णांजीवनिकायानांव विधास्यति तत् सर्वमुपस्थापयन् प्राप्नोति । तस्माद् यत एवं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्रापठिते षड्जीवनिकासूत्रे नाप्यनधिगतेऽर्थेनापि तस्मिन्नपरीक्षिते उपस्थापना कर्तव्या।
अथ कियन्तः षड्जीवनिकायामर्थाधिकाराः ? तत आह[भा.४१२] जीवा-ऽजीवाभिगमो, चरित्तधम्मो तहेव जयणाय ।
उवएसो धम्मफलं, छज्जीवणियाए अहिगारा।। वृ-षडजीवनिकायामिमे पञ्चाधिकाराः, तद्यथा-प्रथमो जीवा-ऽजीवाभिगमः । द्वितीयो महाव्रतसूत्रादारभ्य चारित्रधर्मः। तृतीयो “जयंचरेजयंचिठे" इत्यादिनायतना। तदनन्तरमुपदेशः। ततोधर्मफलम्।एतेच विस्तरतोदशवैकालिकटीकातः परिभावनीयाः। तत्राऽऽस्तामुपस्थापना, कथंसप्रव्राजयितव्यः? इति तदेवोच्यते। तत्र षड्विधो द्रव्यकल्पोवक्तव्य इतितमभिधित्सुराह[भा.४१३]पव्वावण मुंडावण, सिक्खावण उवट्ठ संभुंजणा य संवसणा।
एसो उ दवियकप्प, छविहतो होति नायव्यो ।। वृ-प्रव्राजना नाम यो धर्मे कथितेऽकथिते वा प्रव्रजामीत्यभ्युत्थितः सः प्रथमतः पृच्छयतेकस्त्वम् ? कुतो वा समागतः ? किंनिमित्तं वा प्रव्रजिष्यति? । तत्र यदा पृच्छापरिशुद्धो भवति तदा प्रवराजयितुमभ्युपगम्यते, अभ्युपगम्य च प्रशस्तेषुद्रव्यादिष्वाचार्य स्वयमेवाष्टाग्रहणं करोति । एतावता प्रव्राजनाद्वारम् । तदनन्तरं स्थिरहस्तेन लोचे कृते रजोहरणमर्पयित्वा तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org