SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ बृहत्कल्प-छेदसूत्रम् -१. दोष इति । सम्प्रति कल्पिकद्वारमाह[भा.४०५] सुत्ते अत्थे तदुभय, उव्वट्ठ विचार लेव पिंडे य । सिज्जा वत्थे पाए, उग्गहण विहारकप्पेय॥ वृ-कल्पिको द्वादशविधः, तद्यथा-सूत्रे १ अर्थे २ तदुभयस्मिन्’ सूत्रार्थोभयलक्षणे ३ उपस्थापनायां४ विचारे ५ पात्रलेपे ६पिण्डे तथा शय्यायां ८वस्त्र ९पात्रे १० अवग्रहणे ११ विहारकल्पेच १२ । एष प्रतिद्वारगाथासमासार्थः॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः सूत्रकल्पिकमाह[भा.४०६] सुत्तस्स कप्पितो खलु, आवस्सगमादि जाव आयारो। तेन पर तिवरिसादी, पकप्पमादी य भावेणं॥ वृ-आवश्यकमादिं कृत्वा यावदाचारस्तावत्सर्वोऽपिसूत्रस्य कल्पिको भवति, नखल्वे तावत् सूत्रं यावत् कोऽपि पठन् विनियार्थते । ततः परं त्रिवरषप्रव्रजितमादिं कृत्वा यद् यद् व्यवहारेदशमोद्देशकपर्यन्तेयथा भणितंतत् तथोपदिश्यतेयावद्विंशतिवर्षपर्यायःसर्वश्रुततानुपाती भवति।नवरमाचारप्रकल्पमादिं कृत्वायान्यपवादबहुलान्यध्ययनानियानिचातिशायीन्यरुणोपपातप्रभृतीनि तानि यदा भावे परिणतो भवति तदोद्दिश्यन्ते ।। आह त्रिषु वर्षेष्वपरिपूर्णष्वाचारे पठिते किं कुर्यात् ? अत आह[भा.४०७] सुत्तं कुणति परिजितं, तदत्थगहणं पइन्नगाई वा। इति अंग-ऽज्झयणेसुं, होति कमो जाहगो नायं ।। वृ- यत् पठितं सूत्रं तत् परिजितं कुर्यात् । यदि वा तस्य सूत्रस्यार्थग्रहणं विदध्यात्, प्रकीर्णकादिवा सूत्रतोऽर्थतश्चाधीते।एवमङ्गानामध्ययनानांचातिशायिनांयावत्कल्पिकोभवति तावदेष क्रमो ज्ञातव्यः । जाहकज्ञातं चात्र पूर्वोपन्यस्तमुपन्यसनीयम्, जाहक इव परिजितौ सूत्रा-ऽर्थी कुर्यादिति भावार्थः ।।अर्थकल्पिकमाह[भा.४०८] अत्थस्स कप्पितो खलु, आवासगमादिजाव सूयगडं। मोत्तूणं छेयसुयं, जंजेनऽहियं तदट्ठस्स ॥ वृ-आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गतावद्द्यद्यनाधीतं सतस्यार्थस्य कल्पिको भवति।सूत्रकृताङ्गस्योपर्यपिच्छेदश्रुतंमुक्त्वा यद्येनाधीतंसूत्रसतस्य-सूत्रस्य समस्तस्याप्यर्थस्य कल्पिको भवति।छेदसूत्राणि पुनः पठितान्यपियावदपरिणतस्तावन्न श्राव्यते, यदा तुपरिश्रतो भवति तदा कल्पिकः ।। अधुना तदुभयकल्पिकमाह[भा.४०९] तदुभयकप्पिय जुत्तो, तिगम्मि एगाहिएसु ठाणेसु। पियधम्मऽवज्जभीरू, ओवम्मं अज्जवइरेहिं ।। वृतदुभयं-सूत्रमर्थश्च तस्मिन् कल्पिको युक्तः । किमुक्तं भवति ? -यो द्वावपि सूत्राऽर्थी युगपद् ग्रहीतुं समर्थ स तदुभयकल्पिकः । अथवा तदुभयकल्पिकः 'त्रिक एकाधिकयोः स्थानयोर्युक्तः' त्रिकं नाम सूत्रमर्थस्तदुभयं च, तत्र सूत्रादर्थोऽधिकः, अर्थादधिकमुभयम्, एवमेकस्मादर्थादधिके ये उभे स्थाने सूत्रा-ऽर्थरूपे तत्र युक्तः-योग्यः स तदुभयकल्पिकः । अथवा प्रियधर्मा इति चत्वारो भङ्गाः सूचित्ताः-प्रियधर्मा नामैको न दृढधर्मा १ दृढधर्मा नामैकोन Jain Education International For Private & Personal Use Only For Pro www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy