________________
पीठिका - [भा. ३९८]
१०१ भिरुपशमगुणेन च तथा वयः परिणामेन ‘अभिगमेन' सम्यकशास्त्रार्थकौशलेन युक्तो भवति आचार्यस्य ‘इतरः' द्वितीयः ।। उक्ता पञ्चप्रकाराऽपि पर्षद् । सम्प्रति ‘कयाऽधिकारः?' इति प्रतिपादयति[भा.३९९] छत्तंतियाए पगयं, जइपुण सा होजिमेहि उववेया।
तो देति जेहि पगयं, तदभावे ठाणमादीणि ।। वृ-अत्र च्छत्रान्तिकया पर्षदा 'प्रकृतम्' अधिकारः । शेषाः पर्षद उच्चरितसशा इति प्ररूपिताः । तत्र यदि सा छत्रान्तिका पर्षद् ‘एभिः' वक्ष्यमाणैर्गुणैरुपेता भवति तदा यकाभ्यामत्र प्रकृतं तौ कल्प-व्यवहारौ सूरयो ददति । तदभावे' वक्ष्यमाणगुणाभावे स्थानादीनि आदिग्रहणेन प्रकीर्णकानां परिग्रहः ददति ।। अथ के ते गुणाः ? इत्यत आह[भा.४००] बहुस्सुए चिरपव्वइए, कप्पिए य अचंचले।
अवट्ठिए य मेहावी, अपरिस्सावी य जे विऊ ॥ [भा.४०१] पत्ते य अणुन्नाते, भावतो परिणामगे।
एयारिसे महाभागे, अनुओगं सोउमरिहइ । वृ-बहुश्रुतश्चिरप्रव्रजितः कल्पिकोऽचञ्चलः अवस्थितो मेघावी अपरिश्रावी यश्च 'विद्' विद्वान् प्रभूताशेषशास्त्रपरिमलितबुद्धि । 'पत्ति'त्ति पात्रं प्राप्तो वा, तथा अनुज्ञातः सन् भावतः परिणामकः, एतादृशो महाभागोऽनुयोगं श्रोतुमर्हति, सामर्थ्यात् कल्प-व्यवहारयोः । एष द्वारगाथाद्वयसक्षेपार्थः । विस्तरार्थः प्रतिद्वारं वक्ष्यते ।। तत्र प्रथमं बहुश्रुतद्वारमाह[भा.४०२]तिविहो बहुस्सुओ खलु, जहण्णओ मज्झिमो उ उक्कोसो।
आयारपकप्पे कप्प वम-दसमे य उक्कोसो।। वृ-त्रिविधः खलु बहुश्रुतः, तद्यथा-जघन्यो मध्यम उत्कृष्टश्च । तत्र 'आचारप्रकल्पः' निशीथंतद्धारी जघन्योबहुश्रुतः।मध्यमः कप्पत्तिकल्प-व्यवहारघरः। उत्कृष्टोनवमदशमपूर्वधरः।।
सम्प्रति चिरप्रव्रजितद्वारमाह[भा.४०३] चिरपव्वइओ तिविहो, जहन्नओ मज्झिमो य उक्कोसो।
तिवरिस पंचग मज्झो, वीसतिवरिसोय उक्कोसो। वृ-चिरप्रव्रजितस्त्रिविधः, तद्यथा-जघन्यो मध्यम उत्कृष्टश्च । तत्र त्रिवर्षप्रव्रजितो जघन्यश्चिरप्रव्रजितः । पञ्चवर्षप्रव्रजितो मध्यमः । विंशतिवर्षप्रव्रजित उत्कृष्टः॥
अथ केन बहुश्रुतेन चिरप्रव्रजितेन चाधिकारः? इत्यत आह[भा.४०४] बहुसुय चिरपव्वइओ, उ एत्थ मज्झेसु होति अहिगारो।
__एत्थ उ कमे विभासा, कम्हा उ बहुस्सुओ पढमं ।। वृ-अत्र बहुश्रुतश्चिरप्रव्रजितश्च यो मध्यस्ताभ्यामधिकारः । गाथायां सप्तमी तृतीयार्थे । अत्र ‘क्रमे क्रमविषये विभाषा कर्त्तव्या, सा चैवम्-कस्मात् प्रथमं बहुश्रुत उक्तः? यतः प्रथम प्रव्रज्या बवति, ततः श्रुतम्, ततः प्रथमं चिरप्रव्रजितस्योपादानं युज्यते; नैष दोषः, नियमविशेषप्रदर्शनार्थं ह्येवमुपादानम्-योबहुश्रुतः सनियमाच्चिरप्रव्रजितः, येन त्रिवर्षप्रव्रजितस्य निशीथमुद्दिश्यते, पञ्चवर्षप्रव्रजितस्य कल्प-व्यवहारौ, विंशतिवर्षप्रव्रजितस्य दृष्टिवादः, तेन न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org