________________
१००
बृहत्कल्प-छेदसूत्रम् -१
एस सपक्खे परपक्खे मोत्तु छन्नं निसिजं च ।। वृ- एकान्तेऽपि यत्र कोऽपि न तिष्ठति तत्र 'विरहे' छन्ने प्रदेशे पूर्वं गुरोर्निषद्यां कृत्वा पूर्वामुत्तरांचरन्तिकांवा दिशमभिगृह्य वन्दनकंदत्त्वा उत्कृटुकः प्रबद्धाञ्जलि अथाऽसौ व्याधिमान् प्रभूतं चाऽऽलोचनीयं ततो निषद्यामनुज्ञाप्यालोचयति । एष सपक्षे आलोचनाविधिः । 'परपक्षे' नाम संयती तत्र च्छन्नं मुक्त्वा आलोचना दातव्या, निषद्या च न कार्यते । इयमत्र भावना-यदा संयती संयतस्य पुरतआलोचयतितदाछन्नंवर्जयति, किन्तुयत्र लोकस्यसंलोकस्तत्राऽऽलोचयति, निषद्यां चाऽऽचार्यस्य न करोति, आत्मनाऽप्युत्थिता आलोचयति॥
श्रमणीमधिकृत्यालोचनाविधेश्चतुष्कर्णत्वमाह[भा.३९४] आलोयणं पउंजइ, गारवपरिवज्जिया उ गणिणीए ।
एगंतमणावाए, एगा एगाए निस्साए । कृश्रमणीगौरवपरिवर्जितागणिन्याः पुरतआलोचनांप्रयुके। क्व? इत्याह-एकान्तेऽनापाते 'एका' अद्वितया 'एकस्याः' अद्वितीयाया गणिन्या निश्रया । ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरत आलोचयन्त्याश्चतुष्कर्णा पर्ष भवति ।। षट्कर्णामाह[भा.३९५] आलोयणं पउंजइ, एगंते बहुजनस्स संलोए ।
__सब्बितियथेरगुरुणो, सबिईया भिक्खुणी निहुया ।। वृ-अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी 'निभृता' निव्यापारा न दिशो नापि विदिशआलोकयति, नापि यत्किञ्चिदुल्लापयतीत्यर्थः । एवम्भूता सती एकान्ते बहुजनस्य संलोके आलोचनां प्रयुङ्क्ते ॥अथ कीशी तस्या द्वितीया भवति? इत्यत आह[भा.३९६] नाण-दंसणसंपन्ना, पोढा वयस परिणया।
इंगियागारसंपन्ना, भणिया तीसे बिइज्जिया। वृ-ज्ञान दर्शनसम्पन्ना 'प्रौढा' समर्था या संयतस्य तस्या वा भावं विज्ञाय न मन्त्रणं कर्तु ददाति, किन्तु वदति यद्यालोचितं तर्हि व्रजामो नो चेदालोचनयाऽपि न प्रयोजनमिति । तथा 'वयसा परिणता' परिणतवयाः।तथा 'इङ्गिताकारसम्पन्ना' इङ्गितेनाऽऽकारेण च यस्य यादृशो भावस्तस्य तं जानातीत्यर्थः । एवम्भूता सा तस्य द्वितीया भणिता । सा पुनः कियटूरे तिष्ठति? उच्यते-एके सूरयोवदन्ति-यत्रोभयोराकाराद्दश्यन्तेतावन्मात्रे।अपरेब्रुवते-यत्र श्रवणंशब्दस्येति।।
अष्टकर्णामाह[भा.३९७] आलोयणं पउंजइ, एगंते बहुजणस्स संलोए ।
सब्बितियतरुणगुरुणो, सब्बिइया भिक्खुणी निहुया ।। वृ-एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया भिक्षुकी निभृता आलोचनां प्रयुङ्क्ते । तत्र भिक्षुक्या याशी द्वितीया ताद्दशी प्रागुक्ता॥
सम्प्रति याश आचार्यस्य द्वितीयस्ताशमाह[भा.३९८] नाणेण दंसणेण य, चरित्त-तव-विनय-आलयगुणेहिं ।
वयपरिणामेण य अभिगमेण इयरो हवइ जुत्तो। वृ-ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन 'आलयगुणैः' बहिश्चेष्टाभिः प्रतिलेखनादि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org