________________
पीठिका - [भा. ३७६]
९७
एष दृष्टान्तः । उपनयमाह[भा.३७७] कारणनिसेवि लहुसग, अगीयपच्चय विसोहि दह्ण ।
सव्वत्थ एव पच्चंतगमण गीयागते दंडो॥ वृ-आचार्येणान्यस्यकस्यापि साधोः कारणनिषेविणोऽगीतप्रत्ययनिमित्तंकिञ्चिद्यथालघु प्रायश्चित्तं दत्तम्, विशोधि प्रायश्चित्तमित्यनर्थान्तरम्, तद् दृष्ट्वा चिन्तयति-सर्वत्रैवं प्रायश्चित्तं दातव्यम्।ततः प्रत्यन्ते ग्रामेनगरेवा तस्य गमनम्। तत्र गतः सब्रूते-अहमपिजानामिप्रायश्चित्तम्। तत्र निष्कारणं प्रतिसेविते भणति-भण ‘मया कारणे प्रतिसेवितम् तत एवमुक्ते स ब्रूते-त्वं शुद्धस्तथापि किञ्चिदगीतार्थत्वप्रत्ययंप्रायश्चित्तंददामि। एवंकुर्वन् पश्चादन्येषांगीतार्थानामागमनम् एतैरन्यैर्गीतार्थेद्दष्टः । तैावितो दिक् च तस्यापह्वता । ईशा ये पुरुषाः सा दुर्विदग्ध पर्षत् । एतस्या यो ददाति सूत्रमर्थं वा तस्मै प्रायश्चित्तं चतुर्गुरु । जानत्या अजानत्याश्च सूत्रा-ऽर्थाप्रदाने चतुर्लघु ॥ अथवा द्विविधा पर्षत् लौकिकी लोकोत्तराच । तत्र लौकिकी पञ्चविधा, तामेवाह[भा.३७८] पूरंती छत्तंतिय, बुद्धी मंती रहस्सिया चेव ।
पंचविहा खलु परिसा, लोइय लोउत्तराचेव ।। वृ-पूरयन्ती छत्रवती बुद्धिमन्त्री राहस्यिकी च एवं लौकिकी लोकोत्तराच खलु पञ्चविधा पर्षत् ।। तत्र लौकिकीं पञ्चप्रकारामपि दर्शयति[भा.३७९] पूरंतिया महाणो, छत्तविदिन्ना उईसरा बितिया ।
समयकुसला उमंती, लोइय तह रोहिणिज्जा या ।। वृ-महाजनः पूरयन्तिकापर्षत् । वितीर्णच्छत्राईश्वरा द्वितीयाछत्रान्तिका ।स्वसमयकुशला तृतीयाबुद्धिपर्षत् । चतुर्थी मन्त्री । पञ्चमी राहस्थिकी रोहिणीयानाम' वर्धिका-अन्तःपुरमहत्तरिका। एषा लौकिकी पञ्चप्रकारा पर्षत् ॥ तत्र पूरयन्तिकामाह[भा.३८०] नीहम्मियम्मि पूरति, रन्नो परिसा न जा घरमतीति ।
जे पुन छत्तविदिन्ना, अयंति ते बाहिरं सालं ।। वृ-यदा राजा निर्गच्छति तस्मिन् निर्गते यः कोऽपि महान् जनः स सर्वोऽपि राज्ञो ढौकते यावद्गृहं नायाति सापर्षत पूरयन्तिका।ये पुनः 'छत्रवितीर्णा' प्रदत्तच्छत्रा राजानो भटभोजिकाश्च ते बाह्यां शालां यावदागच्छन्ति शेषा वार्यन्ते एषा छत्रान्तिका छत्रवती पर्षत् ।। बुद्धिपर्षदमाह[भा.३८१] जे लोग-वेय-समएहि कोविया तेहि पत्थिवो सहिओ।
समयमतीतो परिच्छइ, परप्पवायागमे चेव॥ वृ-ये 'लोक-वेद-समयेषु' लोके वेदे समये चेत्यर्थः ‘कोविदाः' कुशलास्तैः सहितःपार्थिवः 'समयम्' अवसरम् ‘अतीतः' प्राप्तः सन् परप्रवादानामागमाः परप्रवादागमास्तान् परीक्षते एषा बुद्धिपर्षत् ।। मन्त्रिपर्षदमाह[भा.३८२] जे रायसत्थकुसला, अतक्कुलीया हिता परिणया य।
मइकुलीया वसिया, मंतेति निवो रहे तेहिं ।। वृ-ये राजशास्त्रेषु' कौटिल्यप्रभृतिषु कुशला राजशास्त्रकुशलाः ‘अतत्कुलीयाः' नराजकुले 187
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org