SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७८ चउरंगो जिनधम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवच्छेओ न कओ हा हारिओ जम्मो ।। चतुःशरण-प्रकिर्णकसूत्रम् ६ मू. (६२) वृ. चत्वारि - दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्मः - अर्हद्धर्मो न कृतो - विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात्, तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि - अर्हतसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्य छेदो - विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन । - 'हा' इति खेदे हारितं - वृथा नीतं जन्म - मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्चयवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति । अथ प्रस्तुताध्ययनोपसंहारमाह मू. (६३) इइ जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं । झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं ।। बृ. 'इति' उक्तप्रकारेण हे जीव ! - हे आत्मन् ! एतदध्ययनं ध्याय - स्मर त्रिसन्ध्यं - संध्यात्रये इति संबन्धः, कथंभूतं ? – पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः - शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वाप्रमादस्य, तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः पुनः कथंभूतं ? -भद्रमन्ते यस्मात्तद्भद्रान्तंमोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत' मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं ? - अवन्ध्यकारणं-सफलकारणं, केषां निर्वृत्ति - मोक्षस्तत्सुखानामिति । 'जिअ ' इति पाठे तु जितप्रमादमहारिपूर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकर्तु समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाधार्थ । २४ प्रथम प्रकिर्णकं चतुः शरणं - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुः शरणप्रकीर्णकस्य विजयविमलगणिविरचिता टीका (अवचूर्णिः) परिसमाप्ता । *** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy