________________
मू० ४८
स्यात्तदाथाद्वयेनाहमू. (५९)
सुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो । कुसलपयडी बंधइ बद्धाउ सुहानुबंधाओ ।।
वृ . शुभपरिणामः - प्रशस्तमनोऽध्यवसायः सन् नित्यं - सदैव चतुः शरणगमनादि - चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् - कुर्वन् साधुप्रभृतिको जीवः कुशलं - पुण्यं तव्यकृतीः 'साउच्चगोअमणुदुगे'त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बघ्नाति, शुभाध्यवायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः - उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एव शुभप्रकृतीः । मू. (६०) मंदनुभावा बद्धा तिव्वनुभावाउ कुणइ ता चेव ।
असुहाउ निरनुबंधाउ कुणइ तिव्वाउ मंदाओ ।।
वृ. प्राग्मन्दानुभावाद् बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीव्रोऽनुभावो - रसो यासां तास्तीवानुभावाः - अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाश्च करोतीत्यपि ज्ञेयं, तथा 'असुहाउत्तियाश्चाशुभा 'नाणंतरायदसग' मित्यादिगाथोक्ता द्व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्ता निर्गतोऽनुबन्धः - उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीव्राः - तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दाः–मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां ह्राससम्भवात्, वन्दनकदानात् श्रीविष्णोरिवेत्यर्थः ।
७७
-उक्तं चतुःशरप्रतिपत्यादेर्महत्फलं, अत एव तदवश्यं कर्त्तव्यमिति दर्शयतिमू. (६१) ता एवं कायव्वं बुहेहि निच्छंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥
वृ. 'ता' इति तस्मात्कारणात् 'एयं' ति एतदनन्तरोक्तं चतुः शरणादि कर्तव्यमति-विधेयं विबुधैः - अवगततत्वैर्नित्यमपि सततमपि, कस्मिन् ? संक्लेशे - रोगाद्यापद्रूपे, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपि पलालाद्यानुषड्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तिं तनोतीति दर्शितं, तथा असंक्लेशोरोगाद्यभावस्तस्मिन् चतुः शरणादि भवति त्रिकालं सन्ध्यात्रयरूपे काले विधीयमान मिति शेषः ।
सम्यग्मनोवाक्कायोपयुक्ततया, कथं भवतीत्याह- 'सुगईफलं 'ति शोभना गतिः सुगतिः - स्वर्गापवर्गरूपा सैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात्, 'सुकयफल' मिति पाठे तु सुकृतं पुण्यं शुभानुबन्धि तत्प्राप्ति फलं भवतीत्यर्थः ।
अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्रीं प्राप्यापि चतुः शरणादि प्रमादादिना न कृतवान् तं शोचयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org