________________
७६
चतुःशरण-प्रकिर्णकसूत्रम् ४५ सकिंभूतः?-सुकृतानुरागेण-सुचरितबहुमाने समुदीर्णा-संजाताः पुण्यबन्धहेतुत्वात्पुण्याःपवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा। मू. (५६) अरिहंतं अरिहंतेसुजंच सिद्धत्तणं च सिद्धेसु ।
आयारं आयरिए उवज्झायत्तं उवज्झाए। वृ.यभाषते तद्गाथाद्वयेनाह-अर्हत्त्वं-तीर्थकरत्वं प्रतिदिनं द्विधर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरुपमसुखभोक्तत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं-ज्ञानाचारादिरूपंपञ्चविधमाचार्येषुअनुमन्ये, तथा उपाध्यायत्वं-सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति। मू. (५७) साहूण साहुचरिअंदेसविरइंच सावयजणाणं ।
अणुमन्ने सव्वेसिं सम्मत्तं सम्मदिट्ठीणं ॥ वृ.तथा साधूनां-सामायिकादिचारित्रवतांपुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककलपातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानांसर्वकालक्षेत्रविशेषितानां साधुचरितं-चरणादिक्रियाकलापंज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपंवाऽनुमन्ये, 'साहुकिरिय मिति पाठान्तरेतुसाधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरतिं-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतैकादशप्रतिमादिरूपां, केषां?
'श्रांपाके श्रान्ति-पचन्तितत्वार्थश्रद्धानंनिष्ठांनयन्तीति श्राः 'टुवपीबीजसंताने वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानिइतिवाः ‘कृत विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्तेच ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषांसम्यक्त्वंसम्यक्त्वं-जिनोक्ततत्वश्रद्धानरूपं 'तमेव सच्चं निस्संकंजंजिणेहिं पवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यग्-अविपर्यस्ता दृष्टि-दर्शनं येषां ते सम्यग्दृष्टयः तेषा मस्यग्दृष्टीनां, अविरतनानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनीमिवेत्यर्थः । मू. (५८) अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुकडं।
कालत्तएवि तिविहं अनुमोएमो तयं सव्वं ॥ वृ.अथ सर्वानुमोदनार्हसंग्रहमाह-'अथवे ति सामान्यरूपप्रकारदर्शने 'चिअ एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाधुपष्टंभधर्मसान्नि ध्यक्षमामार्दवसंवेगादिरूपंमिथ्याध्क्संबन्ध्यपिमार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधंमनोवाक्कायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति। _ 'तकत्' इति ततशब्दात् 'त्यादिसदिः स्वरेष्वंत्या' दिति सूत्रेण स्वार्थेऽकप्रत्यये रूपं, तदित्यर्थः, तत् सर्वं-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतांप्रापयाम इत्यर्थः,बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं ।
__ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुःशरणप्रकिर्णके
तृतीयाधिकारस्य विजय विमलगणिना विरचिता टीका परिसमाप्ता। तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only