________________
मू०४८
७५
वृ.उक्ता सामान्येन दुष्कृतगर्दा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेवतमः-अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषाजीवेनेति शेषः, 'अर्हदादिषु' अर्हतसिद्धाचार्योपाध्यायादिषु पूजाबहुमानार्हेषु 'अवण्णवयणंज तिअवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापंग मि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः मू. (५२) सुअधम्मसंघसाहुसु पावं पडिनीअयाइ जंरइअं।
अन्नेसु अपावेसु इण्हि गरिहामि तं पावं ॥ वृ. श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंधसाधवः तेषु पापं-आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि यदरुच्यबहुमानादि चिन्तनं 'अज्ञानमेव सोभन मिति भणतापूर्वभवे माषतुषस्येवधर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छतश्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव।
तथा सर्वेषांश्रुतधर्मार्हदाचार्योपाध्यायसाधूनामुपरिप्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषु-अष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गमिीत्यर्थः । मू. (५३) अन्नेसुअजीवेसुअ मित्तीकरनाइगोअरेसु कयं ।
परिआवणाइ दुक्खं इण्हि गरिहामितं पावं ॥ वृ. यच्चोक्तं-'अन्नेसु अ पावेसुत्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभित्रेषुमैत्रीकारुण्यमाध्यस्थ्यानि विधेयतयागोचरो-विषयो येषांतेतथा तेषु कृतं-निष्पादितं परिआवणाइ'त्ति परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं तदपि पापं गर्हामिजुगुप्साम्यालोचयामीतियावत्। मू. (५४) जंमनवयकाएहिं कयकारिअअनुमईहिं आयरिअं।
धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं ॥ - वृ.अथोपसंहारमाह-यत्किञ्चित् पापंकृत्यं मनोवाक्कायै रागद्वेषमोहाज्ञानवशात् कृतका रितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अतएवाशुद्धं-सदोषं सर्वं समस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसन्निधावालोचयामि।
-उक्त दुष्कृतगर्हारूपोद्वितीयोऽधिकारः, अधुना सुकृतानुमोदनारूपंतृतीयाधिकारमाहमू. (५५) अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडंभणई।
सुकडानुरायसमुइण्णपुण्णपुलयंकुरकरालो॥ वृ. 'अथेति दुष्कृतगनिन्तरं सः-साध्वादिको जीवः, कथम्भूतः ? -दुष्कृतगर्हयादुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org