________________
७४
.
चतुःशरण-प्रकिर्णकसूत्रम् ४८ गौरवं-महत्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थो-माहास्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षोषध्यादिमाहात्यविशेषसंभवात्, ततः पञ्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्यं, चारित्रपक्षेऽयंपूर्वोक्तोऽर्थः, श्रुतधर्मपक्षेतु रचना पदपङ्क्त्या भास्वरोज्ञानादिभि केवलिभिरुक्तत्वात् भास्वरःशोभनावर्णाः-अक्षराणितेषांतथासुन्दराया विरचनातस्यायोऽलङ्कारोद्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेनचशोभाविशेषः तस्माद्यद्गौरवं-गुरुत्वं अन्वार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वाभासुरसुवर्णसुन्दररचनालंकारेणगौरवं-गुरुत्वंयस्य सतथा, महार्थमिति पृथक्कृत्वा समस्यते।
निधिपक्षे पुनर्भासुरं-दीप्तिमत् सुवर्णं-कनकं सुन्दराणि यानि रत्नानि अलङ्काराहाराद्याभरणविशेषास्तै गौरवं-सम्पूर्णता तन महा? बहुमूल्यः, 'दोगचिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गति-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गर्भावो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्थाज्ञानार्थाधातवः अतो गति-ज्ञानंदुष्टा गतिःदुर्गतिःअज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्म श्रीजिनैः-श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुःशरण प्रकिर्णके प्रथमाधिकारस्य
विजयविमलविरचिता टीका परिसमाप्ता। - उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाहमू. (४९) चउसरमगमणसंचिअसरचरिअरोमंचअंचिअसरीरो।
कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ॥ ___ वृ.चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण संचितं-राशीकृतंयत्सुचरितं-पुण्यंतेनयोऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि इहभवे-ऽन्यभवेचविवितानियानिदुष्कृतानि-पापकृत्यानि तेषांगरे-गुरुसमक्षं ‘हादुटु कय'मित्यादिनिन्दा तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगह तो यः पापापगमोभवतितमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः॥ मू. (५०) इहभविअमन्नभविअंमिच्छत्तपवत्तणं जमहिगरणं।
जिनपवयणपडिकुटुंदुटुं गरिहामितं पावं ॥ वृ. यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्तनं-कुतीर्थिकदानसन्मानतद्देवार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि चाधिकरणं भवनारामतटाकादिकारणसधनुःखङ्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपंयत्कृतमितिशेषः, तथाऽन्यच्चजिनप्रवचने यप्रतिकुष्ट-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः। मू. (५१) मिच्छत्ततमंघेणं अरिहंताइसु अवनवयणं जं।
अन्नाणेण विरइअंइण्हि गरिहामि तं पावं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org