________________
मू०४५
७३
वृ. कालत्रयेऽपि-अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात्, तथा जन्म च जराच मरणंच व्याधयश्चजन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीतिजन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, ‘सुमय'मिति पाठे तुजन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा
- सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनामीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमि-द्वादशाङ्गरूपंपूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः। म. (४६) पसमिअकामपमोहं दिट्ठादिद्वेसुन कलिअविरोहं ।
सिवसुखफलयममोहं धम्मं सरणं पवन्नोऽहं॥ वृ. प्रकर्षेण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात्, तथा दृष्टादृष्ट-दृष्टा-दृष्टविषया येबादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोक-वृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च ।
स्वर्गनरकादयोवा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषुन कलितो-नप्राप्तो विरोधो-विपरीतप्ररूपणारूपो येनसतथातं, केवलिप्रज्ञप्तत्वात्यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अतएव नमोघोऽमोघः अवन्ध्यः सफल इत्यर्थ तमेवंप्रकारं धर्मं शरणं प्रपन्नोऽहमिति । मू. (४७) नरयगइगमणरोहं गुणसंदोहं पवाइनिक्खोऽहं।
निहणियवम्महजोहं धम्म सरणं पवन्नोऽहं॥ वृ.पापकारिणोनरान् कायन्ति-आह्वयन्तीति नरका-रत्नप्रभादिषुसीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनंतद्रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांक्षान्त्यादीनंसंदोहः-समुदायोयत्र सतथा तं, तथा प्रकृष्टा वादिनःप्रवादिनः, निरशब्दो निषेधार्थः, तैः प्रवादिभिः न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः-कल्पनं यस्य सतथा, यद्वा प्रवादिनानि-नितरांक्षोभोयस्मात्स तथातं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन चवादिभिः क्षोभयितुमशक्य इत्यर्थः, 'निहणिय'त्तिनिहतो-नाशं नीतोमन्मथयोधः-कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाञ्चितत्वात् धर्मस्य, तं धर्मं शरणं प्रपन्नोऽहमिति। मू. (४८) भासुरसुवन्नसुंदररयणालंकारगारवमहाधं ।
निहिमिव दोगच्चहरं धम्मं जिनदेसिअंवंदे ॥ वृ.अथ निधानोपमया धर्मस्य नमस्कारमाह-देवदिभासुरगतिहेतुत्वाद्भासुरः-शोभनो वर्णः-लाधागुणोत्कीर्तनरूपो यस्मात्स सुवर्ण, चारित्रवतामिन्द्रादिभिरपिश्लाघनीयत्वात्, तथा सुन्दरा-मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना-विविधकल्पना सैव तया वाऽलङ्कारः-शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org