________________
६८
चतुःशरण-प्रकिर्णकसूत्रम् ३३
जिनकप्पअहालंदिअ परिहारविसुद्धिसाहू अ ।।
वृ. तथा चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येवव्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः ।
तथा नवपूर्विण श्री आर्यरक्षितादयः, पूर्वाशब्दः स्थानत्रयेऽपि संबध्यते ।
तथा 'दुवालस' त्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशाङ्गिनः, ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद्, उच्यते द्वादशमङ्गं दृष्टिवादः, स च परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च चकारो भिन्नक्रमसूचकः ।
संप्रति विशेषानुष्ठानिन आह- 'जिनकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पः- आचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअ ' त्ति उदकार्द्रः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुकल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपङ्क्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं
नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं- गुरुत्वमित्यर्थः, एते पञ्चापि निर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्लं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिका श्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपन्नान् साधूनाह
मू. (३४)
Jain Education International
खीरासवमहुआसव संभिन्नस्सो अकुट्ठबुद्धी अ । चारणवेउव्विपयाणुसारिणो साहुणो सरणं ॥
वृ. 'खीरासव' त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्याद्धर्द्धिक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवतिमुञ्चतीति क्षीरीश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्वाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिन्नसोअ'त्ति ये सर्वै शरीरावयवैः श्रृण्वन्ति जानन्ति च चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चा कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्नश्रोतसः, 'कुबुद्धिय'त्ति नीरन्द्रकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः । 'चारण'त्ति अतिशयचरमाच्चारणाः, ते द्विधा - जङ्घाचारणा विद्याचारणाश्च तत्राद्या
For Private & Personal Use Only
www.jainelibrary.org