SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मू०३० पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तंभक्तिभरनम्रत्वान्मस्तकं -उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी मूतलन्यस्तमौलि सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति॥ मू. (३१) जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा। नाणाइएहिं सिवसुकखसाहगा साहुणो सरणं॥ वृ. यदयं भणति तन्नवभिर्गाथाभिराह-'जिअलोअ'त्ति, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गति कुगतिः, नरकतिर्यगादिरूपा सैवसिन्धुः-महानदी समुद्रो वातस्यास्तस्यवापारं-तीरंगच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु॥ मू. (३२) केवलिणो परमोहिविउलमइसुअहरा जिनमयंमि। आयरियउवज्झाया ते सव्वे साहुणो सरणं॥ वृ.साधुभेदानाह–'केवलं'असहायं-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहित्ति अवधि-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधि परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्सान्धवोऽपि परमावधयः,. उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः । ___विउलमइत्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात्, तत्र विपुला मतिर्ऋजुमत्यपेक्षया विशिष्टज्ञानत्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वतिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैवविशेषान्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणंसूत्रार्थोभयरूपंधरन्ति-योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेणतुआचर्यन्ते-आसेव्यन्ते मोक्षार्थिभिरित्याचार्या-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्यःआगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनोद्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एतेचआचार्योपाध्यायाः सामान्यतो लौकिकाः कालाचार्यादयोऽपि लभ्यन्ते इति तद्यवच्छेदायाह___'जिनमयंमि'त्ति जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अप्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपःसंयमव्यापारेषु प्रवर्तयन्तोगणतप्तिकराः प्रवर्तकाउच्यन्ते, प्रवर्तकव्यापारितार्थेषुसीदमानान्साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थं नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, तेच सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु॥ मू. (३३) चउदस दसनवपुवी दुवालसिक्कारसंगिणो जे अ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy