SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ चतुःशरण-प्रकिर्णकसूत्रम् २७ मू. (२७) पडिपिल्लिअपडिणीआ समग्गझाणग्गिदड्डभवबीआ। जोईसरसरणीया सिद्धा सरणं समरणीआ॥ वृ. पडिपिल्लित्ति, प्रतिप्रेरिताः-क्षिप्ताअनाध्ता इत्यर्थप्रत्यनीकाः-शत्रवोयैः समशत्रुमित्रत्वात्, यद्वा प्रतिप्रेरिता-निराकृताः प्रत्यनीका-निराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं-सम्पूर्ण यद्धयानं परमलयः शुक्लध्यानमित्यर्थ तदेवाग्नि-वह्निस्तेन दग्धंभस्मसातकृतं भवस्य-संसारस्यबीजं-ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरावातै शरणीयाः-आश्रयणीयानमस्करणध्यानादिना,तथा स्मरणीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ।। मू. (२८) पाविअपरमानंदा गुणनिस्संदा विदिनभवकंदा। लहुईकयरविचंदा सिद्धा सरणं खविअदंदा।। वृ. 'पावित्ति, प्रापितः आत्मजीवं प्रति दौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शनादीनां परिपाकप्राप्तत्वानिस्त्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य-संसारस्य मोहनीयादिकर्मरूपःकन्दो यैस्ते तथा, लोकालोकप्रकाशकलेवलोद्योतन लघुकीकृतौ अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात्, ते एवंविधाः सिद्धाः शरणं भवन्तु। . मू. (२९) उवलद्धपरमबंभादुल्लहलंभा विमुक्कसंरंभा। भुवनधरधरणखंभा सिद्धा सरणं निरारंभा॥ ख. 'उवलद्ध'त्ति, उपलब्धं-प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं, यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञानाइत्यर्थः, तथा दुर्लभोलम्भ:-लाभो मुक्तिपदप्राप्तिलक्षणोयेषांसर्वलाभाग्रेसरत्वात्तलाभस्य सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच, तथा विमुक्तः-परित्यक्तः करणीयपदार्थेषु संरंभः-आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां । ___-तथा भुवनं-[भुवनं-त्रिभुवनंतदेव गृहंतस्यधरणं-अवष्टम्भनंतत्रस्तम्भाइव स्तम्भाः, भुवनलोकस्यदुर्गती पततः स्वशरणप्रतिपत्तुस्थिराधारभूतत्वात्तेषां] जीवलोकस्तदेव यद्गृहमिव गृहंतस्य संसारगर्तायांपततोधरणे-रक्षणे स्तम्भाइव स्तम्भाः, तथा निरारम्भा निर्गता-बहिभूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां, तेएवंभूताः सिद्धा ममशरणं-आलम्बनं भवन्तु॥एतेन सिद्धाख्यं द्वितीयं शरणभिहितं ॥ ____ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाहमू. (३०) सिद्धसरणेण नयबंभहेऊ साहुगुणजणिअअनुराओ। मेइणिमिलन्तसुपसत्यमत्थओ तत्थिमं भणइ ॥ वृ. "सिद्ध'त्ति, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाण- गमगहन' मिति वचनात्तस्य नयब्रह्मणो ये हेतवः-कारणभूताः साधुगुणा-विनयादयो, विनयादिगुण सम्पन्नस्यैव श्रुतावाप्तेः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्यसनयब्रह्महेतुसाधुगुणजनितानुरागःशरणप्रतिपत्ता साध्वादि केनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy