________________
मू० ३४
६९
एकोत्पातेन रुचकवरद्वीपं यान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया ह्रासभवनात्, विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वं तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डुकवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपि बहुप्रकाराश्चारणा भवन्ति साधवः, तद्यथा - आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपव नाद्यालम्बनगतिपरणामकुशलाः तथा वापीनद्यादिजले तज्ञ्जीवानविरधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपकुशला जंघाचारणा इति ।
'विउव्वि'त्ति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्घयेयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्बिभ्रति, 'पयाणुसारि' त्ति ये पूर्वापर पदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति - पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामबौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ।। उज्झिअवयरविरोहा निच्चमदोहा पसंतमुहसोहा ।
मू. (३५)
अभिमयगुणसंदोहा हयमोहा साहुणो सरणं ॥
वृ. अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं - प्रभूतकालजं श्रीवीरजिनंप्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलस्येव विरोधः- कुतश्चित्कारणातत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः - त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं - सततमद्रोहाः-परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा।
अत एव प्रशानता-प्रसन्ना मुखशोभा - वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं हि मुखं विकरालं स्यादिति, यत एवंरूपा अत एवाभिमतः -- प्रशस्यः, ' , पाठान्तरेऽभिगतस्सह चारी वा गुणसंदोहो- गुणनिकरो येषां ते तथा, एवंविधानां च ज्ञानातिशयः स्यादिति हतो मोहःअज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥
मू. (३६)
खंडिअसिनेहदामा अकामधामा निकामसुहकामा । सुपुरिसमणाभिरामा आयारामा मुनी सरणं ।।
वृ. खण्डितानि - त्रोटितानि स्नेहरूपाणि दामानि-रज्जवः आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च - गृहाणि येषां छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा विद्यन्ते कामधामानि - विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुस्त्वं, यत एवंविधा अत एव निष्कामंनिर्विषयं यत्सुखं-मोक्षसम्बन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International