________________
-
मू०१५ मू. (१६) परमनगयं मुणंता जोइंदमहिंदझाणमरिहता।
धम्मकहं अरहंता अरहंता हुंतु मे सरणं॥ १. परमन०'त्ति, परेषां-आत्मव्यतिरिक्तानांमनांसि परमनांसि तेषुगतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा' 'वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो मुनयस्तेषामिन्द्राः-गौतमादयःमहान्तश्चतेइन्द्राश्च महेन्द्राः-शक्रादयस्तेषांध्यानं-स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्थी।
तथाधर्मकथांदानशीलतपोभावनादिकांकथयितुमर्हन्तः-तस्याः कथनयोग्याःसर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानहत्वाजिनानां, शेषं प्राग्वत्॥ मू. (१७) सव्वजिआणमहिसं अरहंता सच्चवयणमरहंता।
बंभव्वयमरहंता अरहंता हुंतु मे सरणं ॥ वृ. 'सव्व०' तिसर्वेसूक्ष्मबादरत्रसस्थावरा येजीवास्तेषांन हिंसाअहिंसा-रक्षा तामहन्तः तथासतां हितं सत्यं-तथ्यंतच्चतद्वदनंचतदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहि-तत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं। ॥१॥ "दिव्यौदारिककामानां' कृतानुमतिकारितैः ।
मनोवाक्कायतस्त्यागो, ब्रह्मादशधा मतम् ॥ इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चार्हन्तः, शेषं तथैव ॥
तथा ओस'तिअवस्त्रियते-गम्यते संसारभयोद्विग्नैःजीवैरित्यवसरणंसमवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्ति यान्तियास्यन्ति जाता इत्यध्याहार्यं कहता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्तेते शरणं, पूर्वधर्मकथाकथनयोग्या इत्युक्तंअत्रतुधर्मकथां कथयन्त एवेति नपौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं॥१॥ 'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अन हुंति पुनरुत्तदोसा उ ।
शेषं तथैव। मू. (१८) ओसरहणमवसरंता चउतीसं अइसए निसेवित्ता।
धम्मकहं च कहता अरहता हुंतु मे सरणं॥ एगाइ गिराऽनेगे संदेहे देहिणं समं छित्ता।
तिहुअणमनुसासंता अरिहंता हुंतु मे सरणं । वृ. 'एगाइ गिर'त्तिएकयाऽपिगिरा-एकेनापिवचनेनअनेकप्रकारान्संदेहान्-संशयान्, केषां ?-देहिनां-सुरासुरनरतिर्यगरूपाणां समं-समकालमेव छित्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते'ति पाठे समुच्छिद्येतदि ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा
मू. (१९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org