________________
चतुःशरण-प्रकिर्णकसूत्रम् १२ भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यप्रणतं-प्रणामस्तेन उन्मिश्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्र, क्रियाविशेषणमेतत्, तथा शिरसि-मस्तके कृताञ्जलि-कृतकरकुण्डलः सन् भणति । ____ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहमू. (१३) रागद्दीसारीणं हंता कम्मट्ठगाइ अरिहंता।
विसयकसायारीणं अरिहंता हंतु मे सरणं ।। वृ. 'रागद्दोसा०' इति, रागस्त्रिधाष्टिरागकामरागस्नेहरागभेदात्, द्वेषः-परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रंरागः अप्रीतिमात्रंद्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषांहतारो रागद्वेषारिहंतारः, तथा कर्मणां-ज्ञानावरणादीनांअष्टकं कर्माष्टकं तदादौ यषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्रष्टव्यः।
तथा विषयाः-शब्दरूपगन्धरसस्पर्शाकषायाः-क्रोधमानमायालोभाःअनन्तानुबन्ध्यादिभेदास्तएवजीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ताइति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो-जिना मे मम शरणं-परित्राणं भवन्त्वित्यर्थः। मू. (१४) रायसिरिमवकसित्ता तवचरणं दुच्चरं अनुचरंता ।
केवलसिरिमरिहंता अरहंता इंतु मे सरणं । वृ. 'रायसिरि०'त्ति, राज्यश्रियं-राज्यलक्ष्मी अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं-आसेवनं, कथंभूतं दुश्चरं-सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलंच तत्तपोऽनुचर्य-आसेव्य ये केवलश्रियं-केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थ तेऽर्हन्तः-तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि।
राज्यश्रियमपकर्षयन्तः-त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चाहन्तः-प्राप्नुवन्तोयेतेशरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारास्तिथापि ते गृहवासस्थाः साधूनां न नमस्कराऱ्या अविरतत्वादिति दर्शितं, यच्चानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः॥ मू. (१५) थुइवंदणमरिहंता अमरिंदनरिंदपुअमरहता।
सासयसुहमरहंता अरहंता हुंतु मे सरणं॥ वृ. 'थुइवंद०'त्ति, स्तवः 'थुइ पाठेस्तुतिर्वा-सद्भूतगुणोत्कीर्तनं वन्दनं-कायिकःप्रणामः तौ अर्हन्तः-तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां-समवसरणादिकां समृद्धिं अर्हन्तः-तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखंनिर्वाणादनन्तरं तदप्यर्हन्ति-तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org