________________
भू०८
मू. (९)
अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाहअमरिंदनरिंदमुनिंदवंदिअं वंदिउं महावीरं । कुसलानुबंधिबंधुरमज्झयणं कित्तइस्सामि ॥
वृ. 'अमरिंदनरिंद' त्ति उपक्रमकृतेनापमृत्युना न श्रियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दिउं ति वन्दित्वा, कं ? - 'महावीरं ' महद्वीर्यं यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलानुबंधि' त्ति कुशलो - मोक्षस्तं अनुबन्धीति - परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं - मनोज्ञं, जीवानां ऐहिकामुष्मिक समाधिहेतुत्वात् किं ? - अधीयते -ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं - शास्त्रं, कीर्त्तयिष्यामि - कथयिष्यामीति सम्बन्धः ।
अथ प्रस्तुताध्ययनार्थाधिकारानाह
मू. (90)
६१
चउसरणगमण १ दुक्कडगरिहा २ सुकडानुमोअणा ३ चेव । एस गणो अनवरयं कायव्यो कुसलहेउत्ति ॥
वृ. 'चउसरण'त्ति चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्हा - गुरुसाक्षिकमात्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवे 'ति समुच्चये, एषः - अयं गणः - त्रयाणां समुदायो ऽनवरतं - सततं कर्त्तव्यः - अनुसरणीयः कुशलो - मोक्षस्तस्य कारणमयमितिकृत्वा ॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह
मू. (99) अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४ । एए चउरो चउगइहरणा सरणं लहइ धन्नो ।।
बृ. 'अरहंते' त्यादि, देवेन्द्रकृतां पूजामर्हन्तीत्यर्हन्तः १ तथा सिध्यन्ति - निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गतौ पतन्तं प्राणिनं धरतीति धर्मः किंभूतः ? - केवलिभिः - ज्ञानिभिः कथितः - प्रतिपादितः 'केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास माह, पुनः कथम्भूतो धर्मः सुखमावहति-परम्परया चटत्प्रकर्षं प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्याष्टिधर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह
यू. (१२)
अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥
बृ. 'अह सो'त्ति, अथ सः - शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो? - जिनेषु भक्तिस्तस्या भरः - प्राबल्यं तस्माजिनभक्तिभरात् 'उत्थरंत' त्ति अवस्तृणन्-उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चको रोमाञ्चकंचुकस्ते करालः - अन्तरङ्गशत्रूणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org