________________
६४
चतुःशरण-प्रकिर्णकसूत्रम् १९
सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ वयणामएण भवणं निव्वावंता गुणेसु ठावंता । जिअलोअमुद्धरंता अरिहंता हुंतु मे सरणं ॥
मू. (२०)
वृ. 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं - लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु - उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ पू. (२१)
अच्चब्भु अगुणवंते निअजसससहरपसाहियदिअंते । निअयमणाइमणंते पडिवन्नो सरणमरिहंते ॥
वृ. 'अच्चअत्ति अत्यदभूता - अन्येष्वसंभविनो ये गुणाः - प्रातीहार्यालिदलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान्, तथा निजयश एव शशधरः - चन्द्रस्तेन प्रसाधिता - विभूषिता दिगन्ता - दिक्पर्यन्ता यैः 'पयासिअ ' त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥ उज्झिअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं ।
,
मू. (२२)
तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ।।
वृ. अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह- 'उज्झि'त्ति, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहित्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि - सम्पूर्णानि यानि दुःखानि तैरार्ता ऋतावा - पीडिता ये सत्वाः - प्राणिनस्तेषां शरण्याः - शरणे साधवस्तेभ्यः, यद्वा समाप्तं - निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता - जन्मजरामरणादिदुः खैः पीडिता ये सत्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः ।
- तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्टीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात्, तेभ्यः पूर्वोक्तगुणेभ्योऽर्हद्यो नमो-नमस्कारोऽस्तु ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहअरिहंतसरणमलसुद्धिलद्धसुविसुद्ध सिद्धबहुमाणो ।
मू. (२३)
पणयसिररइअकरकमलसेहरो सिहरिसं भणइ ॥
वृ. 'अरिहंत' त्ति अर्हन्तां शरणमर्हच्छरणं तेन पूर्वोक्तेन या मलस्य कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, 'सुविसुद्ध 'त्ति पाठे तु सुष्ठु - अतिशयेन विशुद्ध-निर्मल इत्यर्थः पुनः किंभूतः ? - प्रणतं भक्तििवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्षं भणति ॥ कम्मट्ठक्खयसिद्धा साहाविअनाणदंसणसमिद्धा ।
मू. (२४)
सव्वट्ठलद्धि सिद्धा ते सिद्धा हुंतु मे सरणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org