________________
पुष्पिका- उपाङ्गसूत्रम् ४/८
बृ. बहुपुत्तियाध्ययने 'उक्खेवओ' त्ति उत्क्षेपः - प्रारम्भवाक्यं, यथा- जइ णं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुष्फियाणं तइयज्झयणस्स अयमट्टे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुष्फियाणं के अट्ठे पन्नत्ते ?
४६
एतस्स 'दिव्वा देविड्डी पुच्छ' त्ति, किण्हं लद्धा - केन हेतुनोपार्जिता ? किण्णा पत्ता - केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता ? किण्णा 'भिसमण्णागय'त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति ? एवं पृष्टे सत्याह- 'एवं खलु' इत्यादि ।
वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्डे' इत्यादि अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधनजाइआययणआओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे हुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, नवरं आढयः-ऋद्धया परिपूर्णः, प्तः - दर्पवान्, वित्तो- विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला 'वंझ'त्ति अपत्यफलापेक्षया निष्फला, 'अवियाउरि' त्ति प्रस, वानन्तर मपत्यमरणेनापि फलतो वन्ध्या भवति अत उच्यते-अवियाउरि त्ति अविजननशीलाऽपत्यानाम्, अत एवाह - जानु कूर्पराणामेव माता - जननी जानुकूर्परमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानु कूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूर्परमात्रः ।
'इमेयारूवे 'त्ति इहैवं दृश्यं - "अयमेयारूवे अज्झत्थिए चिंतए पत्थिए मनोगए संकप्पे समुप्पज्जित्था' तत्रायम् एतद्रूपः आध्यात्मिकः - आत्माश्रितः चिन्तितः- : - मनरूपः मनोगतो - मनोविकाररूपः संकल्पो- विकल्पः समुत्पन्नः । 'धन्नाओ णं ताओ' इत्यादि धन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः - स्त्रियः पुण्याः - पवित्राः कृतपुण्याः - कृतसुकृताः कुतार्था - कृतप्रयोजनाः कृतलक्षणाः- सफलीकृतलक्षमाः । 'सुलद्धेणं तासि अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां म नजजन्म जीवितफलं च । 'जासिं' ति यासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः ।
स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनम्अव्यक्तभीषल्ललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागभिसरन्ति मुग्धकानिअव्यकतविज्ञानानि भवन्ति । पण्हयंति - दुग्धं पिबन्ति । पुनरपि कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति । ददति समुल्लापकान्, पुनः पुनः मञ्जुल प्रभणितान् मञ्जुलं-मधुरं प्रभणितं भणतिर्येषु ते तथा तानू, इह सुमधुरानित्यभिधाय यनमञ्जुलप्रभणि तानित्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमभणितत्वादस्येति ।
'एत्तो' त्तिविभक्तिपरिणामादेषाम् - उक्विशेषणव तां डिम्भानां मध्यादेकतरमपि - अन्यत - रविशेणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूमिगत दृष्टिका करतलपर्यस्तितमुखी ध्यायति अथानन्तरं यत्संपन्नं तदाह-'तेणं कालेण' मित्यादि । गृहेषु समुदानं - भिक्षाटनं गृहसमुदानं भैक्षं, तन्निमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवति, ( एवं वयासि) यथा- विपुलान् समृद्धान् भागान् भोगभोगान्- अतिशयवतः शब्दादीन् उपभुञ्जाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org