SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुष्पिका- उपाङ्गसूत्रम् ३/५ धर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत एवाह - 'अंबारामे य' इत्यादि कल्लं पाउप्पभायाए रयणीए जलते सूरिए इत्यादि वाच्यम् । “मित्तनाइनियगसंबंधिपरियणं पिय आमंतित्ता विउलेणं असनपानखाइमसाइमेणं भोयावित्ता सम्माणित्ता" इति अत्र मित्राणिसुहृदः ज्ञातयः - समानजातयः निजकाः - पितृव्यादयः संबन्धिनः- श्वशुरपुत्रादयः परिजनोदासीदासादि तमामंत्र्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाद्युपकरणः । 'वानपत्थ' त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थिति वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।' इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः, 'होत्तिय'त्ति अग्निहोतृकाः, 'पोत्तिय'त्ति वस्त्रधारिणः, कोत्तिया जन्नई सड्डुई घालई हुंबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा संपक्खालगा दक्खिणकूलगा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थितावसा उद्दंडगा दिसापोक्खिणो वक्कवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तायहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तिय'त्ति भूमिशायिनः, 'जन्नइ' त्ति यज्ञयाजिनः, 'सड्डइ' त्ति श्राद्धाः 'घालइ 'त्ति गृहीतभाण्डा:, 'हुंबउड' त्ति हुंडियकाक्रमणाः, 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मज्जग'त्तिउन्मज्जनमात्रेण ये स्नान्ति 'सम्मज्जगत्ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति, 'निमज्जग' त्ति स्नानार्थं ये निमग्रा एव क्षणं तिष्ठन्ति, ‘'संपक्खालगा' त्ति मृत्तिकाघर्षणपूर्वकं येऽङ्गं क्षालयन्ति, 'दक्खिणकूलग' त्ति यैर्गङ्गादक्षिणकूल एव वस्तव्यम्, 'उत्तरकूलग'त्ति उक्तविपरीताः, 'संखधम' त्ति शङ्ख ध्यात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव, - ' हत्थितावस 'त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, ‘उद्दंडग' तति वल्कलवाससः । ३६ 'बिलवासिणो'त्ति व्यक्तम्, पाठान्तरे ' वेलवासिणो' त्ति समुद्रवेलावासिनः, 'जलवासिणो' त्ति ये जलनिष्णा एवासते, शेषाः प्रतीताः नवरं, "जलाभिसेयकढिणगायत्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् 'जलाभिसेयकढिणगायभूय'त्ति ६श्यते तत्र जलाभिषेकठिनगात्रभूताः प्राप्ता ये ते तथा, 'इंगालसोल्लियं' ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लियं' ति कन्दुपक्खमिवेति । ‘दिसाचक्कवालएणं तवोकम्मेणं' ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वालगवत्थनियत्थे ' त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । ‘उडए’त्ति उटजः-तापसाश्रमगृहम् । 'किढिण' त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकं - भारोद्वहनयन्तंर किढिणसांकायिकम् । 'महाराय'त्ति लोकपालः । 'पत्थाणे पत्थियं'ति प्रस्थाने परलोकसाधनमार्गे प्रस्थितं-प्रवृत्तं फलाद्याहरणार्थं, गमने वा प्रवृत्तम् । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy