________________
अध्ययनं -३
"हेऊइंति हेतूनअन्तर्वर्तिन्यास्तदीयज्ञानसंपदोगमकान्, 'पसिणाईतियात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, ‘कारणाइंतिकारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानिप्रत्युत्तरया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि' तिप्रश्नयिष्ये इति कृत्वा निर्गतः । 'खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एवमवादीत्-'जत्ता ते भंते ! जवणिजंचते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानसंभवयताऽपभ्राजनार्थं प्रश्नः कृति इति ‘सरिसवय'त्ति एकत्र सध्शवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः, 'मास' त्ति एकत्रमाषोदशार्धगुआमानः सुवर्णादिविषयःअन्यत्रमाषो-धान्यविशेषः उडद इति लोके रूढः, 'कुलस्थ'त्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुलस्था-धान्यविशेषः।
सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति, “एगे भवंति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकशउपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भवं' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहितः।
अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (मदित)एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्न तुप्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि-एको हि देवदत्तादि पुरुष एकदैवतत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान्स्वभावान्लभते
'तहा अक्खएअव्वए निच्चे अवट्ठिए आये'त्ति यथाजीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतोव्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवासविहं सावगधम्म पडिवज्जित्ता सट्ठाणमुवगओ सोमिलमाहणो' 'असाहुदंसणेणं' ति असाधवः-कुदर्शनिनो भागवततापसादयः तद्दर्शनेन साधूनां चसुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैर्मिथ्यात्वं गतः, तदुक्तम्॥१॥ “मइभेया पुवोगाहसंसग्गीए य अभिनिवेसेणं ।
चउहा खलु मिच्छत्तं, साहूणंऽदंसणेणहवा ॥" अतो अत्र असाहुदंसणेणंइत्युक्तम्। 'अज्झथिएजाव'त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते योन बहि प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि ‘वयाइंचिण्णाई व्रतानिनियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानी लौकिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org